________________
कीर्तिकलापाख्याविभूषिता
९१
-
तादृशवैशिष्ट्यस्याऽन्यत्र कदाप्यलाभादिति भावः । अतः परोऽपि कोऽपि गुणो वस्तुतः स्तुत्योऽस्ति किमित्येवमन्वये त्वतः परो गुणो न वस्तुतः स्तुत्य इति गुणस्य वस्तुतोऽस्तुत्यत्वे गुणस्याऽप्यवस्तुत्वापत्त्यनुषङ्गादनिष्टार्थप्रतीतिप्रसङ्ग इति सुधीभिश्चिन्तनीयम् ॥३॥ अथ विरोधाभासमुखेन भगवतो वैशिष्ट्यं स्तौतिइदं विरुद्धं श्रद्धत्तां कथमश्रद्दधानकः १ । आनन्दसुखसक्तिश्च विरक्तिव समं त्वयि ॥४॥ इदमिति-अश्रद्दधानकः–नः श्रद्धते इति सः, स्वार्थे कः । श्रद्धाविधुरान्तःकरण इत्यर्थः । विरुद्धम् परस्परस्पर्वि लोके सहावस्थानस्याऽदर्शनादिति भावः । इदम् कथम् - फेनप्रकारेश श्रद्धत्ताम् = रुचिविषयं करोतु ? । रुचेरेवाऽभावान्मलं नाहित कुछ शाखेति भावः । इदमिति किमित्याकाङ्क्षायामाह त्वयि भवति वीतरागे, समम् = युगपदेव, आनन्दसुखसक्तिः - निरुपाधिकशाच तानन्दात्मकस्य सुखस्य सक्तिः सङ्गः, अखण्डशाश्वतानन्दमग्नतेक त्यर्थः । विरक्तिः = प्रशमः, सङ्गविरह इत्यर्थः । चद्वयं समुच्चये । सङ्गसङ्गविरहद्वयं विरुद्धम्, भावाभाववत्सहानवस्थानादित्येकत्र तद्वयं न यौक्तिकम् । त्वादृशस्याऽन्यस्याऽभावादृदृष्टान्तशून्यत्वादिति समं तद्व्यस्वीकारे न श्रद्धातिरिक्तं साधनम्, अश्रद्दधानस्य च श्रद्धाया एवभाव इति स नैतच्छ्रद्धातुं शक्नोतीति भावः । अत्र कर्ममूलसङ्गविरतिः, कर्मक्षयमूलसुखसङ्गश्चेत्यपेक्षा भेदाद्द्द्वयोरविरोधो बोध्यः ।
"
|
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org