________________
९२
श्रीवीतरागस्तवे दशमः प्रकाशः
वीतरागो मुक्तश्च सहैव भगवानित्यद्भुतगुणविशिष्ट इति हृदयम् ॥४
नन्वस्वानन्दसुखसक्तिर्विरक्तिश्च समं वीतरागे, किन्तुपेक्षोपकारिताद्वयी भवता वर्ण्यमाना कथम् ?, विरोधादिति चेन्न । तदाह
नाथेयं घट्यमानापि दुर्घटा घटतां कथम् १ । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥५॥
नाथेति–नाथ !, सर्वसत्त्वेषु-उपकारिष्वपकारिषु तटस्थेषु च, उपेक्षा माध्यस्थ्यम् , समदृष्टितेत्यर्थः । परमा = सर्वोत्तमा, उपकारिता-उपकारशीलता, चः समुच्चये, यद्वा हेतौ । यतः सर्वसत्त्वेषूपकारिता, अत उपेक्षाऽपक्षपातिता, इत्यतः-इयम्-उक्तोभयी, घट्यमाना-उपपद्यमाना, अपितो, वीतरागतया समतायाः, तीर्थप्रवर्तनान्यथानुपपत्त्योपकारितायाश्च निर्णयात् । ततश्चोपेक्षा काप्येकत्र पक्षपाताऽभावेन, कथमन्यथा तीर्थप्रवर्त्तनेन कृत्वा सर्वोपकारकरणम् ? । उपेक्षाऽभावे हि पक्षपाताऽवश्यंभावात्सर्वोपकारिता न सम्भवति । एवञ्च सर्वोपकारितैवोपेक्षामपक्षपातरूपां साधयतीत्यतो हेतोः, कथम् केनप्रकारेण, दुर्घटा दुरुपपादा, घटताम् = जायताम् ? । एकस्या भावेऽपरस्या अवश्यम्भावाद्विरोधाऽभावात्सुघटैव, न तु दुर्घटा । नहि कस्यापि हिताहिताकरणमुपेक्षा, अपि त्वपक्षपातेन सर्वहितकरणमेव । एवञ्च तयो दुर्घटत्वं मन्यमाना विवेकवञ्चिता एवेति भावः । तवैतन्माहात्म्यम् , यद्यदन्यत्र दुर्घटम् ,
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org