________________
कीर्तिकलाव्याख्याविभूषितः
तदेव त्वयि सुघटमिति लोकोत्तरगुणो भवानिति हृदयम् ॥५॥
अतएव परेषां मते विरुद्ध अपि निम्रन्थताचक्रवर्तिते भगवत्यविरुद्ध एवेत्याह
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥६॥
द्वयमिति-भगवन् ! ऐश्वर्यशालिन् ?, एतेन विरोधिनोरपि विरोधपरिहारे कारणसाकल्यं सूचितम् । एश्वर्यशालिनां हि न किमप्यसम्भवमिति भावः । द्वयम्-उभयम्, विरुद्धम्-परस्परप्रतिस्पर्धि, तव त्वत्सम्बन्ध्येव, त्वय्येव घटते, अस्ति वा । अन्यस्य, कस्यचित् कस्यापि, न । भगवत्त्वाऽभावादिति भावः । किन्तइद्वयमित्याह-या यादृशी च, परा-उत्कृष्टा, निर्ग्रन्थता=निःसङ्गतामूलमाकिञ्चन्यम् , तथा, या, च, उच्चैः परा, चक्रवर्तिता धर्मसाम्राज्यम् । तदुक्तधर्मस्य सर्वोत्कृष्टत्वादिति भावः । एतद्वयमित्यर्थः । यो ह्यकिञ्चनः, स न चक्रवर्तीति विरोधः । नि:तया निम्रन्थता, सर्वोत्कृष्टधर्मप्रवर्तनेन च धर्मचक्रवर्तितेत्यरोधः । एषोऽपि तवाऽद्भुतो गुणो विरोधिनोरविरोधरूप इति
वीतरागस्य चारित्रमप्यद्भुतमित्याह---- नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः १ ॥७॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org