________________
ऽप्यत इति सः कथमन्यथा सर्वस्यैव न तल्लाभ इति भावः । स क इत्यपेक्षायामाह-त्वत्पादाब्जरजाकणः = तबः पादावब्जे कमले इव, तद्रजःकणः परागलेश इव धूलिकणः अयम् बुद्धिस्थत्वात्प्रत्यक्षक्दनुभ्यमानः, कलौ प्रासः । अतः सः मयाsवश्यस्तुत्यः । यो हि दुर्लभ प्रापयति, तस्याऽस्तुतौ कृकाव व्यज्यत इति भावः । तस्य दुरापत्वाऽतिशमबोधनाय मालारुमकं लुप्तमालोपमा वाऽऽह-निशि-रात्रौ, दीप-दीप इव, दीपरूपो बा, सबस्तुसन्मार्गप्रकाशकत्वात् । तथा, अम्बुधौ-समुद्रे, दीपम् = द्विगता आपो यस्मिंस्तत् , अन्तरीपम् । जलान्त प्रदेशविशेषइति यावत् । तदिव, तदरूपो वा । अब्धौ द्वीपमिव भवे मज्जतामाश्रयभूमित्वात् । तथा, मरौ-मरुप्रदेशे, शाखी-वृक्षः, स. इव, तद्रूपो वा । आक्पतप्तानां शीतलच्छायाप्रदानेन कृत्वा यथा सुखकरो मरुवृक्षस्तथा भक्तापतप्तानां तन्निवारणेन कृत्वा शीताश्रयप्रदानात् । तथा, हिमे शीतों, शिखी = अमिः, स इव, तदरूपो वा । अग्नि हि हिमे निजतापेन जाड्यनाशकः, तथाऽयमपि सम्यग्ज्ञानप्रदानेन कृत्वा मतिमान्द्यरूपजाड्यनाशकः । ईदृशगुणविशिष्टो न सुलम इति दुराप इति तात्पर्यम् ॥६॥
कलिनमस्करणेन स्वस्य कृतज्ञतां सूचयन् वीतरागदर्शनदौर्लभ्य भङ्गयाह
युगान्तरेषु भ्रान्तोऽस्मि त्वदर्शनविनाकृतः ।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org