________________
श्रीवास्तवे मवनः प्रकाश
पत्त्यादिनिराकरणपूर्वकनिश्चयाय । कल्याणप्राप्त्या इति वाऽर्थः । साधीयान् अतिशयेन साधुः, सर्वोत्कृष्ट इत्यर्थः । कलिरेक नत्वन्यः । कमोपलः = निकषयावा । यथा निकषेण-सुवर्णस्य तत्प्रकारस्य च निर्णयः, शुद्धत्वनिर्णयेन सुवर्णप्राप्ति वी भवति । तथा यः कलिं तरति, स कल्याण इति निर्णीयते, उत्कृष्ट गुणश्च । नहि गुणोत्कर्ष विना कल्याणं विना वा कलौ कोऽपि स्वस्थो भवितुमर्हति । यदि वा यः कलिं तरति, सोऽवश्यं कल्याणं प्राप्नोति । तथा कषेण परीक्षया यथा झटिति सुवर्णप्राप्तिस्तथा कलावपि शीघ्रफलप्राप्तिरिति सुष्ठूत्तम्-कलिख कषोपल इति । कल्याणसिद्धौ कले: प्रयोजकत्वं समर्थयन्नाहअग्नि विना, काकतुण्डस्य-कालागुरोः, गन्धमहिमा-आमोदोत्कर्षः, न, एधते वर्धते । अग्नितप्तस्य हि काकतुण्डस्याऽऽमोदः प्रसरति, नाऽन्यथा । तथा यः कलिं सहते, तस्यैव गुणोत्कर्षो जायते । अन्यथा तु गुणतारतम्यस्य दुर्गमता दुर्लभता चेति कलिरवश्यस्तुत्य इति भावः ॥५॥
भवतु वेतरेवामितरे स्तुत्याः, मम तु कलिरेव स्तुत्यः, तत्रैवेष्टसिद्धेरित्याह
निशि दीपोऽम्बुधौ द्वीपं मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं त्वत्पादाब्जरजःकणः ॥६॥ निशीति-दुरापः दुःखेन कष्टेनाऽनेकभवपुण्यसम्भारबलेना.
Jain Education International 2010_03or Private & Personal Use Only
www.jainelibrary.org