________________
कीर्तिकलाव्याल्याविभूषितः
कुटिलाचारबहुलाय । एतेन कोपे कारणसामग्र्युक्ता । सर्वोऽपिहि कुटिलाचाराय कुप्यतीति भावः । कलये कलियुगाय, एवकारो भिन्नक्रमोऽन्ययोगव्यवच्छेदार्थोऽत्र सम्बध्यते । न त्वन्यस्मा इत्यर्थः । वृथा-निष्कारणम् , कुप्यामः-दु:षमारोऽयमित्येवमाक्रुश्य क्रोधमाविष्कुर्मः । यदि हि सर्वत्र दुर्जनास्तर्हि सर्वेषामेव युगानां वामकेलितेति सर्वेभ्य एव कुप्यन्तु, न तु कलये एव । एवञ्च कलये एव कोपो वृथेति । यद्वा-कलये वृथैव कुप्यामः । तत्र हेतुगर्म विशेषणमाह-वामकेलये-वामाऽभीष्टत्वाद्रग्या केलिः शीघ्रभक्तिफलप्रदानप्रयोजकत्वरूपो विलासः प्रभावो वा यस्य, तस्मै, तादृशाय । “वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि चे" त्यमरः । न च युगान्तरेष्वीदृशवैशिष्ट्यम् । एवञ्च युगान्तरेभ्य एव कोपो युक्तः । कलये तु दूरे योग्यतावाती, प्रत्युत वृथैवेति तात्पर्यम् ॥४॥
___ भवतु वा कलि दुर्गुणखानिः, तथाऽपि युगान्तरेभ्योऽ. यमतिशेते । कल्याणपरिचयसाधनत्वात्तस्येत्याह
कल्याणसिद्ध्यै साधीयान् कलिरेव कषोपलः । विनाऽग्निं गन्धमहिमा काकतुण्डस्य नैधते ॥५॥
कल्याणेति-कल्याणसिद्ध्यै-कल्याणस्य कल्याणगुणविशिष्टस्य । भव्यस्येति यावत् । सुवर्णस्य च । सिद्ध्यै-निर्णयाय, कल्याणो न वा ?, किशो वा कल्याण इत्येवं शङ्काविप्रति
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org