________________
. श्रीषीतरागस्तवे नवमः प्रकाशः
-
-
-
च तादृशे योगे, त्वच्छासनस्य त्वदाज्ञायाः, साम्राज्यम्= प्रभु त्वम्, एकच्छत्रम् एकमन्यस्य तादृशप्रभुत्वाऽभावादद्वितीयं छत्र प्रभुत्वलिङ्गमातपत्रं यस्य, तत्तथा । प्रतिपक्षरहितमित्यर्थः ।। त्वच्छासनमेव विजयेतेति यावत्. । एवञ्च श्रद्धालूनां निपुणव्या. ख्यातृणां चाऽभावादेव वीतरागकृपापात्राणामल्पता, तद्भक्तिफलभाज च विरलता । सति च सामग्रीसाकल्ये तदुभयमाहास्यमविकल मेवोपलभ्येत । नहि जलायभावेन बीजस्याऽङ्कुराऽजननं तदयो. ग्यत्वसाधनायाऽलमिति भावः ॥३॥
ननु तादृशयोगदौर्लभ्ये दुर्गुणबहुलकलिप्रभाव एव मूलमिति कलिस्तुतिस्तवाऽस्थान इति चेन्न । युगान्तरेऽपि दुर्गुणानां सत्त्वा. दित्याह---
युगान्तरेऽपि चेन्नाथ ! भवन्त्युच्छृङ्खलाः खलाः । पृथैव तर्हि कुप्यामः कलये वामकेलये ॥४॥
युगेति–नाथ !, चेद् यदि, युगान्तरे = अन्यः सत्ययुगादिर्युगो युगान्तरम् , तस्मिन् , अपिना कलिसमुच्चयः । सद्गुण. बहुलतया ख्यातेऽपीति वा सूच्यते । उच्छृङ्खला: उद्गतं दूरी. भूतं शृङ्खलमिव नियममर्यादा येभ्यस्तादृशाः, निर्मर्यादा इत्यर्थः । अश्रद्धालबो ज्ञानलवदुर्विदग्धाश्चेति यावत् । अत एव, खला:खलशब्दवाच्या दुराचाराः, भवन्ति । तर्हि, वामकेलये-वामा दुष्परिणामत्वाद्वका केलि विलासो यस्य, स तादृशः । तस्मै,
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org