________________
(6)
कीर्तिकलाव्याख्याविभूषितः
अवस्थानम् , श्लाघ्या-प्रशस्या सविशेषमपेक्षिता च । तत्र.. तस्यफलविशेषात् : "व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैरि " ति, भावः । अत्र मरुभूमिदुःषमयोर्बिम्बप्रतिबिम्बभावेन. मरौ कल्पवृक्षस्येव कलौ वीतरागस्य कृपा तदुपदेशप्राप्तिरूपा दुर्लभेति ध्वन्यते । सति च तल्लाभे शीघ्र फलाऽवाप्तिरिति कालमाहात्म्यमिति तादृशः कालस्तव कृपा. च द्वयमेवापेक्षितमिति हृदयम् ॥२॥
ननु वीतरागवचनमागमादिरूप्रेणा प्रथितं सर्वसुलभम् कलिकालश्च प्रवर्त्तमान एव । किन्तु पिरला एवं शानिमाताकृपामाजस्तद्भक्तिफलभाजश्च ततोऽपि विरलाः इति किं नाम कृपा-.. माहात्म्यं कालमाहात्म्यं वेतिचेत्, एवमेतत् । चैतावतारायः कालस्य वा माहात्म्यं हीयते । अपि तु तादृशमाहात्मानभवेऽपेक्षितसामग्रयन्तरविरह एव प्रयोजक इत्याह का
श्राद्धः श्रोता सुधीर्वका युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्यमेकच्चं कलावपि ॥३॥
श्राद्ध इति-ईश! यदि, श्रोता=ज्याल्यातृभिः प्रतिपाद्यमानानां त्वत्प्रवचनानां श्रावकः, श्राद्धः = सम्यग्दर्शनवान् , वक्ता-व्याख्याता, सुधीः त्वत्प्रवचनमर्मवेदी जिज्ञासुप्रबोधकुशलश्च, लावुभौ, युज्येयाताम् एकत्र मिलेताम् । तत् तदा, कलौ, अपिना युगान्तरसमुच्चयः । युगान्तरे तादृशयोोगः कालप्रभामात्सुलभः, कलिकालस्य तु मिथ्यात्वभूयिष्ठत्वात्स दुर्लभः । सति
-
-
-
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org