________________
श्रीवीतरागस्तवे नवमः प्रकाशः
फलप्रदत्वादित्यर्थः । सर्वस्य हि शीघ्रफलप्रद एवेष्टो भवति । मादृशानाञ्चाऽल्पायुर्बलादीनां सुतरां फलप्राप्तौ विलम्बस्याऽसहनीयस्वात् । तादृशश्च कलिकाल एवेति तमेवैकं कालं प्रार्थये । त्वदाज्ञामाराधयन्नपि न भवे चिरं स्थातुमिच्छामीति भावः । एतेन स्वस्य मुक्तिविषयाऽत्युत्कटेच्छा ध्वन्यते ॥१॥
ननु न केवलं कालमाहात्म्येन फलावाप्तिः' तस्यापेक्षाकारणत्वात् । किन्तु भजनीयकृपैव तत्र मुख्यं तन्त्रम् । तां विना कालस्याकिञ्चित्करत्वादिति चेत्, एवमेतत् । अत एव सा दुःखबहुले कलौ प्रशस्तफला विशेषतोऽपेक्षितेत्याह---
सुषमातो दुःषमायां कृपा फलवती तव ।
मेरुतो मरुभूमौ हि श्लाघ्या कल्पतरोः स्थितिः ॥२॥ सुषमात इति-तव, कृपा-उपलक्षणत्वात्कृपया कृतः सदुपदेशादिः, सुषमातः सुषमाराख्यं सुखसबुद्धिबहुलं सत्ययुगादिकं वाऽपेक्ष्य, दुःषमायाम् दुःखदुर्बुद्धिबहुले दुःषमारे कलौ वा, फलवती-भूरिफला प्रशस्यफला च । अरान्तरे कालमाहास्यादल्पानामेव दुःखित्वाद् दुर्बुद्धित्वाच्च तदुद्धारेणाऽप्यल्पफला बहुदुःखिदुर्बुद्धितारणात्प्रशस्तफला च । एवञ्चाऽत्र सा विशेषेण त्वया कृपा प्रवर्तनीयेति भावः । तदृदृष्टान्तेन समर्थयन्नाह-हि-यथा, कल्पतरोः अभीष्टप्रदस्य कल्पवृक्षस्य, मेस्ता मेरुपर्वतं सर्वसौविध्यसमृद्धमपेक्ष्य, म जलादिहीने वालकामयप्रदेशविशेषे मरुनाम्ना प्रसिद्धे, स्थितिः=
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org