________________
नवमः प्रकाशः अथाऽष्टभिः प्रकाशैरसाधारणाऽनुत्तमगुणवैशिष्टययथार्थवक्तृत्वाऽन्याऽनभिभवनीयत्वादिगुणगणकीर्तनेन कृत्वा वीतरागस्यैव भजनीयत्वमिति भङ्गया समर्थ्य कालस्याऽपि 'जन्यानां जनकः कालो जगतामाश्रयो मत' इति भक्तिफलावाप्तिं प्रत्यपेक्षितत्वात्कालविशेषस्य च शीघ्रफलप्रदत्वमाहात्म्यात्तादृशस्य कलिकालस्य स्वस्य वीतरागभक्तिफलं प्रत्यत्युत्कण्ठिततया स्तुतिमुपक्रमते
यत्राऽल्पेनाऽपि कालेन त्वद्भक्तेः फलमाप्यते । कलिकालः स एकोऽस्तु कृतं कृतयुगादिभिः ॥१॥
यत्रेति-यत्र यत्प्रकारे कलिकाले, कलियुगेतिप्रसिद्धे चतुयुगाऽन्यतमकाल इत्यर्थः । त्वद्भक्तेः तव वीतरागस्य भक्तेः सेवायाः, साच तदाज्ञाराधनादिनेति बोध्यम् । अल्पेन-इतरयुगापेक्षयाऽल्पतरेण, कालेन अहोरात्रादिरूपेण, अपिना नतु बहुना कालेनेत्येवकारार्थध्वननेन कलिकालमाहात्म्यं ध्वन्यते । फलम् = मुक्त्यादिरूपं फलम् , आप्यते । यदुक्तम्=" कृते वर्षसहस्रेण नेतायां हायनेन च । द्वापरे यच्च मासेन अहोरात्रेण तत्कमावि " ति । सः= तादृशमाहात्म्यविशिष्टः, एकः केवलः, " एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथे " त्यमरः । कलिकाला कलियुगाख्यः कालविशेषः, अस्तु । कृतयुगादिभिः सत्ययुगत्रेताद्वापरयुगैः, कृतम् अलम् : न तैःप्रयोजनम् , विलम्बेन
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org