________________
७८
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
तदेवं बहुसम्मतत्वादनेकान्तपक्ष एवाऽऽदरो विदुषामित्युपसंहारेण वीतरागं स्तौति
तेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपझं कृतधियः प्रपन्ना वस्तुतस्तु सत् ॥१२॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवेs. ष्टमः प्रकाशः ॥८॥
तेनेति-तेन-अनेकान्तस्य बहुसम्मतत्वेन हेतुना, कृतधियः विद्वांसः, त्वदुपज्ञम् त्वया वीतरागेणोपज्ञम् प्रथममुपदिष्टम् , गोरसादिवत-यथा गोरसादिस्यात्मकम् , तद्वत् । यदुक्तम्-" पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् " इति । उत्पादव्ययस्थेमसम्भिन्नम् उत्पादव्य. यध्रौत्र्यात्मकम् । सत्-वस्तु, वस्तुतस्तु-वास्तविकरूपेण, प्रपन्ना:स्वीकृतवन्तः, ईदृशरूपमेव वस्त्वित्येवमङ्गीकृतवन्तः । सत्स्वेव बहूनां सम्मतिरिति कृतधियां बहुसम्मतमेवाऽऽदरणीयम् । तच्च त्वदुपज्ञमेव । अन्यत्त्वसदबहुसम्मतमिति तत्राऽऽदरोऽविदुषामेवेति त्वमेव विजयसे इति महांस्तव महिमा । न च त्वत्तोऽन्यो महानिति भावः ॥१२॥
इतिश्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्ति. कलाख्यायां व्याख्यायामष्टमः प्रकाशः ॥ ८॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org