________________
७६
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
यन् । रूपादीनां व्याप्यवृत्तित्वादेकस्मिन्नेव पटादौ विरुद्धश्वत नीलादीनामसम्भव इत्येकं चित्रं रूपं स्वीक्रियते । नीलपीताद्या कारकरम्बितं च तत् । चित्रप्रतीतौ नीलपीतादीनां मिश्ररूपेण प्रतीतेरानुभविकत्वादिति नीलपीताद्यनेकाकारकरम्बितमेकं चित्रं रूप मित्येवं प्रतिपादयन्निति भावः । स क इत्यपेक्षायामाह-योगः: गौतमानुयायी नैयायिकः । वैशेषिका कणादानुयायी, वाऽपीति समुच्चये । अनेकान्तं न प्रतिक्षिपेत् । स्वयमेव विरुद्धानेका कारात्मकैकचित्ररूपात्मकाऽनेकान्तस्वीकारादिति भावः ॥९॥
साङ्ख्यस्याऽप्यनेकान्तप्रतिक्षेपाऽनवसर इत्याहइच्छन् प्रधानं सत्त्वायैर्विरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नाऽनेकान्तं प्रतिक्षिपेत् ॥१०
इच्छन्निति-सङ्ख्यावताम् = पण्डितानाम् , मुख्यः = श्रेष्ठः, विवेकितम इति यावत् । मुख्यत्वं च तस्य नैयायिकाद्यपेक्षया तत्पक्षस्येश्वराद्यस्वीकारेण विशुद्धत्वाबोव्यम् । साङ्ख्यःकापिलः, प्रधानम् = प्रकृतिम् , “प्रधानं प्रकृतिः स्त्रियामि " त्यमरः । सत्त्वाद्यैः सत्त्वरजस्तमोभिः, विरुद्धैः = परस्परेण प्रतिबन्धकैः, गुणैः गुणशब्दवाच्यैः, गुम्फितम्=करम्बितम् , इच्छन् । तस्य हि " सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरव्यक्तम् । तत्तारतम्येन च महदाद्याविर्भाव इति त्रिगुणात्मकं जगदिति मतमिति भावः । नाऽनेकान्तं प्रतिक्षिपेत् । स्वयमेव विरुद्धसत्त्वादिगुणात्म
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org