________________
कीर्तिकलाष्याख्याविभूषितः
७५
घटितमित्यर्थः । इच्छन् स्वीकुर्वन् , ताथागतः बौद्धः, प्राज्ञः= पण्डितः, “धीरो मनीषी ज्ञः प्राज्ञः सयावान् पण्डितः कविरि" त्यमरः । चेत्तर्हि, अनेकान्तम्-वस्तुनो विरुद्धानेकधर्मात्मकत्वम् । न-नैव, प्रतिक्षिपेत्-निराकुर्यात् । स्वीकृतं हि निराकुर्वतः प्राज्ञतैव हीयेत, प्रकर्षणाऽज्ञता च सम्भाव्यतेति भावः । बौद्धा हि केचित्शणिकविज्ञानमेव सत् , घटादयो विज्ञानाकारा एव । विज्ञानसत्त्व एव तेषां भावात् , विज्ञानाभावे च तेषामनुपलम्भात् । एकस्मिन् ज्ञाने चैक एवाकारः, अन्यथा पृथग्घटपटादिव्यवहारविलोपप्रसङ्गात् । ततश्च नीलपीतादिविरुद्धाकारविशिष्टैकचित्रपटज्ञानं न स्यादितिदोषपरिहारायैकमेव चित्रज्ञानं नानाकारकं तैः स्वीकृतम् । एवञ्चैकस्यैव वस्तुनो विरुद्धनानाधर्मात्मकत्वरूपोऽनेकान्तवादस्तैः स्वीकृत एवेति तस्य निराकरणे स्वाभ्युपगतस्यैव निराकरणापत्तिस्तस्य त्यादिति कथनाम प्राज्ञः संस्तथा कुर्यादिति हृदयम् ॥८॥
नैयायिको वैशेषिको वाऽप्युक्तहेतोरेव नानेकान्तं प्रतिक्षेप्तुअर्हतीत्याह
चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि नाऽनेकान्तं प्रतिक्षिपेत् ॥९॥
चित्रमिति—चित्रम्-चित्राख्यम् , रूपम्-वर्णम् , एकम्= शैलपीताद्यतिरिक्तप्रकारम्, अनेकम् नीलपीताद्यनेकाकारकरम्बितम् , वा समुच्चये । प्रामाणिकम् प्रमाणप्रसिद्धम् , बदन् प्रतिपाद
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org