________________
७४
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
द्धमिति भावः । " मेचकश्चन्द्रकः समौ “ मेचकश्चन्द्रकः समौ " ( अ. चि० 18 १३२० । ) इति । विरुद्धवर्णयोगः - विरुद्धानां सहानवस्थायि नीलश्वेतादीनां वर्णानां योगः सामानाधिकरण्यम्, दृष्टः = प्रत्यक्षसिद्ध तत्राऽपि हि तत्तदवयवभेदापेक्षया विरुद्धा वर्णी एकत्राऽऽश्रये सन्ति न च विरोधिनः । एवमत्राऽपि द्रव्यापेक्षया नित्यत्वस्य पर्यायाऽपेक्षयाः नित्यत्वस्य चैकत्र सत्त्वेन विरोध इति कथमेकत्र तयोरसम्भवः स्यात् ! एवञ्च प्रत्यक्षसिद्धमेव द्वयात्मत्वं वस्तुन इति । अत एव च सर्वदो मोषोऽपि । उक्तदोषपरिहारार्थमपि चाऽनिच्छयाऽपि तन्मन्तव्यां वेति । तथा चाsत्र प्रयोगः - अपेक्षाभेदेन नित्यानित्यते एकत्रा विरुद्धे, तेन रूपेण विरोधे प्रमाणप्रसिद्धेरभावात् । ययोरपे क्षाभेदेनैकत्र सत्वम्, तयोरविरोधः । मेचकवस्तुषु विरुद्धवर्णयो गवदिति । यद्यपि पद्येऽपेक्षाभेदेनेति नोक्तम्, तथाप्यविरोधी पपादनपरतया पद्यस्य तल्लभ्यते इति ध्येयम् ॥ ७ ॥
एवमुक्तप्रकारेण वस्तुनोऽनेकान्तात्मकत्वं समर्थ्य, बौद्धा दीनां तत्प्रतिक्षेपोऽपि न युज्यते, स्वयं तथा स्वीकारादिति प्रद र्शयन्नाह—
विज्ञानस्यैकमाकारं नानाकारकरम्बितम् ।
इच्छंस्ताथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ||८| विज्ञानस्येति – विज्ञानस्य क्षणिकज्ञानस्य, एकम् आका
-
"
रम्= स्वरूपम्, नानाकारकरम्बितम् = नानाऽऽकारैः करम्बितं मिश्रम्
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org