________________
(5)*
कीर्तिकलाव्याख्याविभूषितः
स्यत्ववाददोषस्य च नित्यतयोपशमेन नित्यानित्यत्वात्मकपदार्थस्वीकारे सर्वदोषोपशमः । तत्प्रकारश्च पूर्वपद्ये प्रदर्शित एवेति बोध्यम् ॥६॥
ननु विषम उपन्यासः, गुडनागरयो ।व्ययोः स्वरूपेणाडविरोधात्तयोः संयोगे तजन्यगुणद्वारा विभिन्नदोषोपशमनात्प्रकृति साम्याद्धितकरत्वात् । नहि तत्र विरुद्धयोर्गुणयोरेकत्र सत्त्वम् । अत्र तु विरुद्धयोनित्यानित्यत्वयोरेकत्र विरोधादसम्भव इति चेन्न, तदाह
द्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥ ७॥
द्वयमिति-द्वयम् = नित्यत्वाऽनित्यत्वोभयम् , एकत्र-एकस्मिन्नात्मघटादावाश्रये, न विरुद्धम् परस्परेणाऽप्रतिबन्धकम् , तत्र हेतुमाह-असत्प्रमाणप्रसिद्धितः न सतां यथार्थानां प्रमाणानां प्रसिद्धिः, तस्याः । यथार्थप्रमाणाभावादित्यर्थः । विरोध इति शेषः । इदमत्र तात्पर्यम्-समानापेक्षया नित्यत्वमनित्यत्वं च विरुद्धमिति तेन रूपेण तयोरेकत्राऽसम्भवः । विभिन्नापेक्षत्वेन च तयोर्विरोधे प्रत्यक्षादिप्रमाणानामभावः । प्रत्युत विभिन्नापेक्षत्वेनैकत्र विरुद्धयोः सत्वमेव प्रत्यक्षादिप्रमाणेनोपलभ्यते । तत्र दृष्टान्तमाह-हीतिदृष्टान्तोपदर्शने, यथेत्यर्थः । मेचकवस्तुषु मेचकेषु मयूरपिच्छस्थचन्द्रकेषु, उपलक्षणत्वादन्येष्वपि चन्द्रकतुल्येषु चित्रवर्णेषु पटादिवस्तुषु । बहुवचनं प्रसिद्धिसूचनार्थम् । यद्धि बहुत्र दृष्टं तदेव प्रसि
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org