________________
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
भवेत् स्वीक्रियेत । तदा कश्चन कोऽपि कृतनाशादिः, दोषा= आपत्तिः, नैव, सम्भवतीति शेषः । आत्मनो द्रव्यरूपेण नित्यतया तत्र क्रमेण सुखादिभोगः, पर्यायरूपेणाऽनित्यतया भिन्नस्वभावेन शुभाशुभक्रियाकरणाच्च पुण्यपापादिसम्भवः । तथा घटादीनां पर्यायरूपेणाऽनित्यतया न कृतनाशः, घटायुत्पादेनैव कृतस्य मृत्तिकानयनादेः कर्मणः साफल्यात् । द्रव्यरूपेण नित्यतया च नाऽकृतागमः, पूर्व कृतस्यैव द्वितीयक्षणेऽपि सत्त्वात् । तथा क्रमे णाऽर्थक्रियाऽपि सिध्यति । एवञ्च सर्व समञ्जसमिति भगवानेवाऽऽ श्रयणीय आपत्तिनिवारणमार्गप्रदर्शकत्वादितिहृदयम् ॥५॥
ननु “प्रत्येकं यो भवेद्दोषो द्वयोभीवे कथं न स ?" इति पूर्वपक्षोच्छेदाय विरुद्धयोरेकाश्रयत्वेन दोषाभावे दृष्टान्तमाह___ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।।
द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥
गुड इति-हि दृष्टान्तोपदर्शने, यथेत्यर्थः । गुडःप्रसिद्ध इक्षुविकारविशेषः । कफहेतुः कफस्य श्लेष्मणो हेतुः कारकः स्यात् , तथा नागरम्-शुण्ठी, पित्तकारणम्-पित्तस्य कारणं जनकम् ; स्यादिति सम्बध्यते । किन्तु, द्वयात्मनि-द्वयं गुडना. गरमात्मा स्वरूपं यस्य तादृशे, तत्प्रधानत्वादिति भावः । गुडनागरमेषजे-गुडनागरमिश्रणसिद्धौषधे, दोषः कफहेतुत्वं पित्तकारणत्वं च, नास्ति,कफकारकेण पित्तोपशमनास्पित्तकारकेण च कफोपशमनात्ता. दृशभेषजस्य हितत्वात् । तथा नित्यत्ववाददोषस्याऽनित्यतयाऽनि
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org