________________
कीर्तिकलाव्याख्याविभूषितः
यितयैकान्ताऽनित्यत्वभङ्गापत्तेः । पूर्वस्य त्वात्मनोऽपरक्षणे क्षणिकत्वादसम्भवात् । एवञ्चैकत्रात्मनि तयो भॊगोऽनुभवसिद्धो विलुम्पत्येव । युगपत्तयोरनुभवश्वाऽत्रापि पक्षे उक्तप्रकारेणैव न सम्भवति । विरोधिगोरेकत्रैकदा युगपदनवस्थानात् । अन्यथा विरोध एव दुरुपपादः स्यात् । किञ्चात्मनः क्षणिकत्वे तस्य स्वोत्पत्तिमात्रव्यग्रतया कथं सुखस्य दुःखस्य वाऽनुभवो भवेत् ? । इति ॥२॥
सुखदुःखानुभवाऽपलापे चाऽनर्थपरम्परामाह---- पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नाऽनित्यैकान्तदर्शने ॥३॥
पुण्येति-नित्यैकान्तदर्शने = आत्मा नित्य एवेत्येवमात्मविषयनित्यैकान्तवादे, पुण्यपापे, बन्धमोक्षौ, न । आत्मनः सम्भवतीति शेषः । अनित्यैकान्तदर्शने = आत्माऽनित्य एवेत्येवमात्मविषयाऽनित्यैकान्तवादे । पुण्यपापे, बन्धमोक्षौ, न । तथाहिनित्योऽप्रच्युताऽनुत्पन्नस्थिरैकरूप इति तत्र सुखदुःखयोरुक्तरीत्याऽभावे तत्कारणभूतयोः पुण्यपापयोरप्यभावः । कार्याऽभावेन कारणाभावानुमानात् । एवञ्च तयोरभावे बन्धोऽपि न स्यात् , आत्मनः पुण्यपापसम्बन्धस्यैव बन्धपदार्थत्वात् । तदभावे च कुतो मोक्षः । 'तस्य बन्धपूर्वकत्वात् । एवमनित्यैकान्तदर्शनेऽप्युक्तरीत्याऽऽत्मनः सुखदुःखाभावात्पुण्यपापबन्धमोक्षाभावः । एवञ्च लोकपरलोकादिसर्वापलापः प्रसज्यत इति हृदयम् ॥३॥
Jain Education International 2010_3or Private & Personal Use Only
www.jainelibrary.org