________________
६८
श्रीषीतरागस्तवेऽष्टमः प्रकाशः
-
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२
आत्मनीति - आत्मनि, एकान्तनित्ये = जीव एकान्ते नित्य इतिवादाऽभ्युपगमे सति, सुखदुःखयोः, भोगः = अनुभव न स्यात् । एकान्तानित्यरूपे, आत्मनीति विशेष्यं सम्बध्यते स्वीकृते सतीति शेषः । अपिनकान्तनित्यपक्षसमुच्चयः । सुरु दुःखयोर्मोगः, न, स्यादिति शेषः । अयमाशयः-यद्यात्मैकान्ते नित्यस्तर्हि स सर्वदाऽप्रच्युताऽनुत्पन्नस्थिरैकरूपः स्यात् । तत्त्व स्यैव नित्यपदार्थत्वात् । एवं च तेन तादृशेनाऽऽत्मना सुखि दुःखिना वा केनाऽप्येकेनैव प्रकारेण भवितव्यम् । उभयस्य त स्वीकारे स्वभावभेदापत्त्या नित्यत्वव्याघातात् । नहि स येन स्वभ वेन सुखमनुभवेत्तेनैव दुःखमपि, तथा सति सुखदुःखयोमैदस्य दुरुपपादत्वात् । यदुक्तम्-" अयमेव हि भेदो भेदहेतुर्वा, यदि रुद्धधर्माध्यासः कारणभेदश्चे" ति । तयोः सममनुभवोऽप्यनेने दोषेण निरस्तः । अनुभवानामयोगपद्याच्च । किञ्च तथा सा द्वयोविरोधितयैकेनाऽपरस्य परस्परं पराभवे द्वयोरेवाऽभावान्नैयायिष सम्मता मुक्तिरेवाऽऽत्मनः सर्वदाऽऽपद्येत । सुखं दुःखं चाऽऽत्मा नुभवतीति सर्वाऽनुभवसाक्षिकम् । तस्मान्नैकान्तेन नित्य आत्मा नाऽप्येकान्तेनानित्यः । उक्तदोषस्याऽत्राऽपि पक्षे दुःसमाधेयत्वात् आत्मनस्तत्क्षणं नाशात्तेनैकेन स्वक्षणे सुखं दुःखं वा किमप्येकमेवाऽनुम येत, न तुभयम् । न चाऽपरक्षणे तद्भोगः, तथासति कतिपयक्षणस्थ
amiric...
Aai...
-
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org