________________
कीर्तिकलाव्याख्याविभूषितः
यपेक्षायामाह-कृतनाशाऽकृतागमौ–कृतस्य नाशोऽकृतस्याऽऽगमश्च,
। स्याताम् आपद्यताम् । एकान्तनाशे-एकान्तेन नाशोऽनेत्यत्वम् , तस्मिन् स्वीकृते सति, 'यत्सत्तत्क्षणिकं सत्त्वादि' त्यनुमानबलेनैकान्ताऽनित्यत्वं सतो लक्षणमित्येवंस्वीकारे सति, अपिनैकान्तनेत्यत्वसमुच्चयः । किमित्याह-कृतनाशाऽकृतागमौ, स्यातामिति बध्यते । अयंभावः-घटादि वस्तु यद्येकान्तेन नित्यं स्यात्तर्हि तस्य कुम्भकारादिकर्तृकमृदानयनादिकर्मणो नाशः, तत्फलस्य घटाइनित्यतया पूर्वत एव सत्त्वान्नैष्फल्यात् । अत एव च मृत्पिण्डाहेष्वकृतस्यैव घटादेरागमो लाभः स्यात् , घटादे नित्यतया मृत्पिण्डाअवस्थायामपि सत्त्वात् । द्वयञ्चाऽनुभवविरुद्धमित्येकान्तनित्यत्वपक्षो 1. कुक्षीकरणीयः । एवमेकान्ताऽनित्यत्वपक्षेऽपि प्रथमक्षण एव घटानाश इति द्वितीयक्षणे लभ्यमानः सोऽकृत एवेति कृतनाशाऽतागमावत्राऽपि पक्षे । एवञ्चाऽगत्योत्पादव्ययध्रौव्यरूपमेव वस्तुस्वमवगन्तव्यम् । ततश्च न कृतनाशाऽकृतागमौ । घटादेः पर्यायपणोत्पादविनाशयोर्मुदादिद्रव्यरूपेण ध्रौव्यस्य च स्पष्टमनुभावात्कृत
शाऽकृतागमयोरभावादिति । अत्राऽग्रे च दोषाणां पुनरुक्तिः प्रसिव्यर्थोऽसमाधेयतासूचनार्थश्च । लोकेऽपि हि विषयदायीय तदेव पुनः पुनरुच्यते इत्यवधेयम् ॥१॥
एवमेकान्तवादे सामान्यतो दोषमुक्त्वाऽऽत्मनि कृतत्वस्थ नाऽप्यस्वीकारात्तद्विषये दोषान्तरं प्रदर्शयन्नाह -----
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org