________________
७०
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
ननु नहि कार्याऽभावात्कारणाऽभाव इति व्याप्तिः, अयो गोलकादौ धूमाऽभावेऽपि वह्निभावात् । एवञ्च सुखाद्यननुभवे पुण्यादिसत्त्वान्नोक्तदोषपरम्परा । नाऽपि कृतनाशादिः, घटादेनित्य त्वेऽपि तदाविर्भावादी कृतस्योपयोगात् । अत एव नाऽकृताग मोऽपि, तस्य कृतनाशोत्तरभावित्वात् । एकान्ताऽनित्यत्वेऽपि । पूर्वपूर्वक्षणानां सदृशापरापरक्षणोत्पादकत्वादुक्तदोषाऽनवकाशादिदि चेन्न, तदाह
क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥४॥
क्रमेति--हि-यतः, नित्यानाम्=नित्यत्वेनाऽभ्युपगमविषया णामात्मादिपदार्थानाम् , क्रमाक्रमाभ्याम् क्रमः पूर्वापरीभावः, र च, अक्रमो योगपद्यम् , स च, ताभ्याम् , कृत्वा, अर्थक्रियाप्रयोजनसम्पादनम् । कार्यकरणमित्यर्थः । न. युज्यते-घटते. एकान्तक्षणिकत्वे = एकान्ताऽनित्यत्वे, अपिनैकान्तनित्यसमुच्चयः पदार्थानामित्यर्थबलाल्लभ्यते । हि-यतः । अर्थक्रिया, न, युज्यते क्रमाऽक्रमाभ्यामितीहाऽपि सम्बध्यते । अयम्भावः--पुण्यपापे शुभा शुभक्रियाजन्ये कर्मणी, नित्यस्य चाऽऽत्मन एकरूपतया शुभाऽशुः भक्रियाऽसम्भवः । तथाहि स क्रमेण क्रियां कुर्यादक्रमेण वा ? । न तावत्क्रमेण, तथासति स्वभावभेदस्य दुर्वारतया नित्यत्वभङ्गा पत्तेः । स्वभावाऽभेदे च क्रियाभेदो दुरुपपादः । पुण्यपापे च
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org