________________
कीर्तिकलान्याख्याविभूषितः
-
यावत् । चः पुनरर्थे भिन्नक्रमः । कायभृतः शरीरिणः, तीर्थङ्करा इति यावत् । अपिनाऽशरीरिसमुच्चयः । सन्ति । एतेन मुक्तानामशरीरतया प्रवचनयोग्यताया उक्तरीत्याऽभावादागमाप्रामाण्यशङ्काया अवसरो निरस्तः । शरीरिणः सर्वज्ञस्य प्रवचनयोग्यता:नपायादिति ध्येयम् । एतावता च ज्ञातृत्वपरतया कर्तृत्वमेव समर्थितम् , स्थितिप्रलयौ जगतस्त्वद्याप्यसमर्थितावेवेति परसम्मतं सृष्टिस्थितिप्रलयकरत्वमीश्वरस्याऽनुपपन्नमेवेति हृदयम् ॥७॥
तदेवं परान्निरस्य वीतरागप्रसादादेवाऽप्रामाणिकवादपरित्यागो यथार्थवादानुरागश्च सम्भवतीति भक्तिभरहृदयतया स्तुवन्नुप-- संहरति
सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥८॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते श्रीवीतरागस्तवे सप्तमः प्रकाशः ॥७॥ ____ सृष्टीति-इति प्रतिपादितप्रकारेण, अप्रमाणकम् = प्रमाणरहितम् , तोऽसहिष्ण्विति यावत् । अत एव, सृष्टिवादकुहेवाकम्-सृष्टेर्जगतः सर्गस्येश्वरकर्तृकस्य यो वादः प्रतिपादनं स्वीकारो वा, तत्र कुहेवाकं कदाग्रहम् । यद्धि न परीक्षाक्षमम् , तस्य प्रतिपादने स्वीकारे वा कदाग्रहं विना नाऽन्यो हेतुर्भवितुमर्हतीति भावः । उन्मुच्य परित्यज्य, ते तादृशा जनाः, त्वच्छा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org