SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीवीतरागस्तवे सप्तमः प्रकाशः मित्यायातमित्याह - तर्हि - ईश्वरस्य तथास्वभावत्वप्रतिपादनानन्तर काले, एषः - ईश्वरस्य तथास्वभावत्वप्रतिपादनम्, परीक्षकाणाम् : साधकबाधकतर्फे वस्तुतत्त्वनिर्णयप्रवृत्तानाम्, कृते इति शेषः । परी क्षाक्षेपडिण्डिमः = परीक्षाया यः क्षेपः समापनं तस्य डिण्डिम पटह:, उपलक्षणत्वात्तद्वादनमित्यर्थः । लोके हि कस्याश्चित्क्रियाया प्रारब्धाया डिण्डिमवादनेन समाप्तिः सूच्यते । तद्वदीश्वरस्य तथा स्वभावत्वप्रतिपादनं परीक्षाप्रवृत्तेः समाप्तिसूचनम् । स्वभावस्य परीक्षाs नर्हत्वात् । एवं च श्रद्धामात्रत एव तत्प्रतिपत्तव्यमिति प्रेक्षा वतां तदनुपादेयमेव । ईश्वरस्य तस्य जगत्कर्तृत्वादेश्च तर्कीs सहत्वादिति गूढाकूतम् ॥ ६ ॥ , तदेवं पराजितान् परानाश्वासयितुं प्रकारान्तरेण तत्पक्ष समर्थयन्नाह - सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥ ७ ॥ सर्वेति – यदि, सर्वभावेषु =जगद्विषये, कर्तृत्वम् = सर्गः ज्ञातृत्वम् = ज्ञानरूपम्, सम्मतम् = अनुमतम् भवत ईश्वरस्थ जगत्कर्तृत्ववादिन इति शेषः । अपूर्वोत्पादकत्वादिरूपस्योक्तरीत्या तर्की " जैनानामि 1 सहत्वाद्धेतोरिति भावः । तदा तत् नः अस्माकम्, मतम् - इष्टम्, यतः, सर्वज्ञाः = त्रैकालिकसर्वद्रव्यसर्वपर्ययज्ञातारः मुक्ताः = साकल्येन कर्मक्षयाच्छरीरसम्बन्धरहिताः सिद्धा इति Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy