________________
कीर्तिकलाष्याख्याविभूषितः
कृत्वा तत्पृष्ठतः स्वयं स्थित्वाऽर्जुनो भीष्मं प्रहरति स्म । भीष्मस्तु प्राग्जन्मस्त्री शिखण्डी स्त्रीषु प्रहारस्याऽनुचितत्वान्मा निहन्यतामिति न त्य प्रतिकरोति स्मेत्यतोऽर्जुनेन भीष्मो निपातितः । सुखादौ च न कोऽपि भीष्मसदृशः प्रतिकता, यदर्थमीश्वरं शिखप्डिवन्मध्येकृत्वा कर्मार्जुनः सुखादिकार्य कुर्यादिति कर्मणा स्वयमेव सर्व क्रियतामिति न शिखण्डितुल्येनेश्वरेण प्रयोजनमिति हृदयम् ॥५॥
ननु जगत्कर्तृत्वादिकं स्वभाव एवेश्वरस्य, स च न पर्यनुयोगमर्हतीति चेत्तत्राह
अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तद्देष परीक्षाक्षेपडिण्डिमः ॥६॥
अथेति-अथ यदि, महेशितुः = जगजननसाधनाऽनितरसाधारणैश्वर्यशालिनः परमेश्वरेतिख्यातस्य, स्वभावतः तथास्वाभाव्यादेव हेतोः, नतु प्रयोजनादितः । वृत्तिः-जगत्सर्गादौ प्रवृत्तिः, सा च, अविता सुखिनमेव सकलं किं न करोति, दुःखिनं किं करोतीत्यादिरूपेण वितर्कमूहापोहं नाऽर्हतीत्यर्थः । स्वभावस्यैवाऽसूर्यनुयोज्यत्वेन तज्जन्यप्रवृत्तेः सुतरामपर्यनुयोज्यत्वात् । जलाग्न्यादेस्थ ऊर्ध्वगमनादिवदिति भावः । एवं तर्हि भवान् यद्यत्प्रतिविदयति, तत्तच्छृद्धामाधाय स्वीकरणीयम् , नतु परीक्षणीयम् । सर्वत्रैव तथास्वभावत्वस्येश्वरवत्प्रतिपादयितुं स्वातन्त्र्यान्निराबाध-- त्वाच्च स्वभावस्याऽपर्यनुयोज्यत्वादिति परीक्षकास्तूष्णीमेवाऽऽसता
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org