________________
कीर्तिकलाव्याख्याविभूषितः
दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् जनं तु सृजतस्तस्य कृपालो का कृपालुता ? ॥४॥
दुःखेति-दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम्= दुःखमिष्टवियोगाऽनिष्टसम्प्राप्तिव्याध्यादिजनितः शोकः, तञ्च, दौर्गत्यं दारिव्यम् , तच्च, दुर्योनि र्दु दुःस्थिता नारकतिर्यगादिका पीडाबहुला प्रसिद्धा योनिः, साच, जन्मादिक्लेशो जन्मजरामरणादिरूपा बाधा, स च, तैर्विह्वलो विक्लवस्तं, तादृशम् , दुःखादिपरिगत-- तयाऽस्वस्थमित्यर्थः । “विक्लवो विह्वलः" (अ. चि. ३।४४८) इति । जनम् उपलक्षणत्वाज्जीवम् , तुर्विषादे । दुःखिनमपि कोऽपि सुजतीत्येतया वातया विषण्णो भवामीत्यर्थः । सृजतः रचयतः, तस्य कृपालो कृपालुतया प्रसिद्धस्येश्वरस्य । एतेनोपहासोऽपि ध्वन्यते, दुःखदोऽपि चेत्कृपालुस्तर्हि को नाम निर्दयो भवेत् । । का कृपालुता ? -न कापि कृपालुतेत्यर्थः । कृपा ह्यन्यसुखार्थप्रवृत्तिजनको मनोवृत्तिविशेषः, दु:खिसर्जनेन तु तस्य तत्राऽभाव एवाऽनुमीयते । एवं च यदि स कृपालुस्तर्हि तत्र कीदृशी कृपालुसेति वक्तव्यम् । प्रसिद्धस्य कृपालुत्वस्य तत्राऽसिद्धेः । एवञ्च बदि स वस्तुतो जगत्का स्यात्तर्हि नितरां क्रूर एवाऽनेन कार्येण स्यादिति महानुपप्लवस्तस्य जगत्कर्तृत्वस्वीकारेः समापततीत्या--
. . ननु स कृपालुरेव, कथमन्यथा सुखं दुःखं वा स्वकर्मानु
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org