SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागस्तवे सप्तमः प्रकाशः ननु मुक्तस्य स्वतन्त्रस्य तस्य सतो विलक्षणैश्चर्यशालितया प्रयोजनाधभावेऽपि क्रीडयैव तत्र प्रवृत्तिरितिचेत्तदपि नेत्याह--- क्रीडया चेत्प्रवर्तेत रागवान् स्यात्कुमारवत् । कृपयाऽथ सृजेत्तहि सुख्येव सकलं सृजेत् ॥३॥ क्रीडयेति--चेत् = यदि, क्रीडया = प्रयोजनविशेषमनुद्दिश्य विनोदमात्रेण, प्रवर्तेत, जगत्सर्गे इत्यनुषज्यते । तर्हि, कुमारवत् बालकवत् , रागवान्-आसक्तः, स्यात्-सम्भाव्येत । कुमारो हि प्रयोजनाद्यभावेऽपि क्रीडया किश्चिद्वालुकागृहादिनिर्माणे प्रवृत्त स्तत्राऽऽसक्तो भवति । कथमन्यथाऽन्येन विन्ने कृते सति तस्याड प्रीतत्वस्य सर्वेषामनुभवः ? । एवमीश्वरेऽपि तथा सत्यासक्तिसम्भा वनया मुक्तत्वमेव सन्दिग्धं स्यादिति भावः । ननु यथा कृत कृत्यस्याऽपि त्वदभिमतस्य वीतरागस्योपदेशादौ कृपया प्रवृत्तिः, तथे श्वरस्याऽपि तयैव सा स्यादितिचेत्तदप्यसमञ्जसमित्याह-अथ यदि कृपया जीवकृपापरवशः, जीवाऽनुग्रहकाम्ययेति यावत् । सृजेता रचयेत् , जगदित्यर्थात्प्रकरणाद्वा लभ्यते । तर्हि -तदा, सकलम्भ सर्वजीवजातम् , सुख्येव, नतु दुःख्यपीत्यवधारणफलम् । सृजेत्। कृपया हि कोऽपि सुखी क्रियते, नतु दुःखीति भावः ॥३॥ न च कोऽपीह लोके सुखी, प्रत्युत दुःख्येव सर्वो लोक इति कुतस्तस्य कृपया प्रवृत्तिर्मन्यतामित्याह-- Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy