________________
कीर्तिकलाव्याख्याविभूषितः
ताया अभावादाप्तत्वकथाऽवसरोऽपि तेषु नास्तीति भावः ॥१॥
ननु क्षित्यादिकार्याणामन्यथाऽनुपत्त्येश्वरस्य तत्कर्तृत्वस्वीका-- राऽऽवश्यकतया वेदादिवक्तृत्वमप्यन्यस्याऽसम्भवात्तस्यैवेति चेन्न । अशरीरत्वाज्जगत्कर्तृत्वयोग्यताया अपि तत्राऽभावादित्याह
अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किञ्चित् , स्वातन्त्र्यान्न पराज्ञया ॥२॥
अदेहस्येति-अदेहस्य-नित्यमुक्ततयाऽशरीरस्येश्वरस्य, जगत्सर्ग-जगतः सर्गे सर्जने, तन्निमित्तमित्यर्थः । प्रवृत्तिः इच्छा यत्नो वा, अपिनाऽऽरम्भादिसमुच्चयः ॥ नोचिता-न योग्या, प्रवृत्तेः कायादियोगरूपत्वादीश्वरस्य च तदभावात्प्रवृत्तियोग्यताऽपि तत्र नास्ति । एतेन क्षित्यादेः कार्यत्वाऽनुमाने शरीराऽजन्यत्वेन सत्प्रतिपक्ष इति सूचितम् । ननु तस्यैश्वर्यशालितया तद्वशादेव तेन जगत्सर्ग इति न तत्र शरीराद्यपेक्षितमितिचेत्तत्राह-किञ्चित् किमपि, प्रयोजनम् = अभिलषणीयम् , इष्टमित्यर्थः । न च-नैव, अस्तीश्वरस्येति शेषः । मुक्तत्वेन सिद्धप्रयोजनत्वात्प्रयोजनं विना प्रवृत्तेरभावात्तां प्रतीष्टसाधनताज्ञानस्य कारणत्वादिति भावः । नन्वनीहमानोऽपि पराज्ञया प्रव
मानो दृष्ट इति तस्याऽपि तथाप्रवृत्तिरिति चेत्तत्राह-पराज्ञया - परस्य तद्भिन्नस्याऽऽज्ञया प्रेरणया, राजादेराज्ञया भृत्यादेरिवेति भावः । न, प्रवृत्तिरिति शेषः । तत्र हेतुमाह-स्वातन्त्र्यात् = ईश्वरस्य स्वाधीनत्वात् । अन्यथेश्वरत्वमेव व्याहन्येत, पराज्ञाऽभावे कार्यविपत्तिश्चाऽऽपद्यतेति भावः ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org