________________
५८
श्रीवीतरागस्तवे सप्तमः प्रकाशः
धर्माधर्मी विना नाऽङ्ग विनाङ्गेन मुखं कुतः १ । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ? ॥ १॥
धर्मेति-धर्माधर्मी धर्म:पुण्यं कर्म, स च, अधर्मः पाएं कर्म, स च, तौ, विना, अङ्गम् शरीरम् , न, कार्मणशरीर स्यैव सर्वशरीरमूलत्वात्तदभावे औदारिकादेरसम्भवात् । तत्र कर्म स्वीकारे च नित्यमुक्तत्वमेव विहन्येतेति भावः । नन्वेतदिष्यब एव, यदुक्तम्-" अशरीरं वाऽवसन्तं प्रियाप्रिये न स्पृशत.” इति चेचिरं जीव, किन्तु, अङ्गेन विना, मुखम् वदनम् , कुतः १ न कुतोऽपीत्यर्थः । शरीरसत्त्व एव तदवयवतया मुखसम्भवः शरीरं विना मुखस्य कल्पयितुमप्यशक्यत्वात् , कुत्राऽप्यप्रसिद्धेः एवं च शरीराऽभावे निराश्रयतया मुखं न स्यादेवेति भावः ननु नैतत्किञ्चिन्नवीनमुच्यते इति चेत् , एवमेतत् , किन्तु, मुखान द्विना, वक्तृत्वम् वचनयोग्यता, न, शब्दस्य वायुताल्वाद्यभिः घातजन्यतया मुखाभावे वर्णपदवाक्यात्मकशब्दवक्तृत्वयोग्यताया अप्यभावात् । नहि कोऽपि मुखं विना वाद्यात्मकं शब्दं वदन दृष्टः श्रुतो वेति भावः । ननु ततः किमित्याह-तत-तस्मान्मुः खाद्यभावरूपाद्धेतोः, परे = ईश्वरत्वेनाऽभिमता देवाः, कथम् = केन प्रकारेण, शास्तार: उपदेष्टारः, वेदादीनां भवितुमर्हन्तीतिशेषः । नैव भवितुमर्हन्तीत्यर्थः । आप्तश्च यथार्थवक्ता, परेषां च नित्यमुक्ततयाऽशरीरतया वचनसाधनाऽभावेन वक्तृत्वस्यैवाऽभावाद्यथार्थ वक्तृत्वं दूरापेतमेव । एवञ्च न केवलं तेऽनाप्ताः, किन्तु योग्य
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org