________________
(4)*
कीर्तिकलाप्याख्याविभूषितः
५७
सदागतिः पवनः । तिष्ठेत स्थिरो भवेत् , स्वप्रवृत्तिनिमित्तमपि त्यजेदिति सम्भाव्यते, कुतोऽपि हेतोः कदाचिद्देवादिभिस्तद्गतिस्तम्भस्य शक्यत्वादिति भावः । तथा, अद्रिः न द्रवतीति तादृशः; पर्वतः; द्रवेत-शीनघृतादिवत्कालमाहात्म्याद्विलक्षणतेज:संयोगादिना द्रवीभावं गच्छेत् , किञ्च' जलम्-सलिलम् , अग्निविध्यापनसाधनत्वेन प्रसिद्वम् , अपिः समुच्चये । ज्वलेत-इन्धनतां गच्छेत् , अग्निदीपनमेव भवेत् । पुद्गलानां परिणामस्याऽनियतत्वाद्वियुदादीनामबिन्धनत्वप्रसिद्धेश्चेति भावः । तथापि एतेषां कार्याणां सम्भावनायामपि, रागाद्यैः-रागद्वेषादिभिः , ग्रस्त: कवलितः, रागादिपर. मश इत्यर्थः । आप्त: यथार्थवक्ता, भवितुं नार्हति = आतत्वे वीतरागत्वस्यैव तन्त्रत्वात्तद्विषये कालादिप्रभावस्याऽप्रसरात् । एवं च तादृशराजाज्ञाऽभावेऽपि वीतराग एवाऽऽश्रयणीयोऽवशिष्यते इति भावः ॥१२॥
.. इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायां षष्ठः प्रकाशः ॥६॥
सप्तमः प्रकाशः षष्ठप्रकाशे परेषां जगत्कर्तृत्वाऽऽप्तत्वाद्यभावे सामान्यतो हेतु. रुक्तः । सम्प्रति तेषु तद्योग्यताऽपि नास्तीत्याह--
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org