________________
५६
श्रीवीतरागस्तवे षष्ठः प्रकाशः
वर्जकमित्यर्थः । ननु सुन्दरोऽपि पक्षपाती जनैरुपेक्ष्यते इति शङ्कानिराकरणायाह-दृशौ नेत्रे, वस्तुतत्त्वपरिच्छेदसाधने नयभनौ च, मध्यस्थे = रागद्वेषसम्पर्कशून्यत्वादुपकारिण्यपकारिणि च समे, स्यात्कारलाञ्छितत्वादनेकान्तात्मकौ च । वचः-प्रवचनम् , लोकन म्पृणम् लोकप्रीतिजनकम् , हितत्वात्तथ्यत्वाच्चेति भावः । इति= उक्तप्रकारेण, बाढम् अत्यर्थम् , एकमपि पर्याप्तम् , त्रयसत्त्वे तु बाढम् , अन्यत्र त्वेकमपि दुर्लभमिति भावः । प्रीतिपदे अनुः रागविषयतायोग्यतावति सति, अपिना तादृशस्यात्यन्तमनुपेक्षणी यत्वं सूच्यते । त्वयि-वीतरागे विषये, मूढाः हेयोपादेयविवेक विकलाः, उदासते-उपेक्षन्ते, यतो मूढाः, अत उदासते । विवे किनस्तु परेषामीदृशवैशिष्टयाभावात् त्वामेवाश्रयन्त्येवेति भावः ॥११॥
ननु न केवलं वीतराग एवाऽऽप्तः, स एवाऽऽश्रयणीयः, किन्त्वन्येऽप्याप्ताः । किञ्च वीतराग आश्रयणीय एवेति न राज ज्ञाऽस्तीति चेत् , रागिणां तेषां न कदाप्याप्तत्वमित्याह
तिष्ठेद्वायु ईवेदद्रिवलेजलमपि क्वचित् । तथापि ग्रस्तो रागायै नप्तिो भवितुमर्हति ॥१२॥
इति कलिकालसर्वज्ञहेमचन्द्राचार्यविरचिते श्रीवीतरागस्तवे षष्ठः प्रकाशः ॥६॥ - तिष्ठेदिति-क्वचित कदाचित् , कालस्याऽचिन्त्यप्रभावत्वा दिति भावः । वायुः-वाति सदा गच्छतीत्येवं शीलः, स तादृशः
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org