________________
कीर्तिकलाव्याख्याविभूषितः
निराकरणं जगदनित्यत्वाद्युपदेशादिना ययोस्ती, तादृशौ । स्त इति शेषः । तु-किन्तु, तुर्विशेषमपि द्योतयति, तदाह-दृष्टिरागः दर्शनासक्तिः, वस्तुस्वरूपाभ्युपगमरूपस्वस्वसिद्धान्तविषयको रागः, स्त्र्यादिसुन्दराङ्गादिदर्शनविषयको रागश्च, पापीयान् अतिशयेन पापः, पापजनकत्वात्कारणे कार्योपचारः । अधम इति यावत् । तत्र हेतुमाह-सताम् सबुद्धीनाम् , अपिना ज्ञानलवदुर्विदग्धानां तु कथैव केति सूच्यते । दुरुच्छेदः दुष्परिहरः, न त्वपरिहार्यः, अन्यथा सत्त्वव्याघातात् । असतान्त्वपरिहार्य एव । सन्तो हि वीतरागादिवचनमधिगम्य विवेकबलात्पूर्वाङ्गीकृतं दर्शनं स्यादिसुन्दराङ्गा विदर्शनादिकं च प्रयस्य त्यजन्त्यपि, असन्तस्तु हठाग्रहितयाऽल्पमतितया ज्ञानलवदुर्विदग्धतया च वासनापराधीनतया च सन्मार्ग बोव्यमाना अपि पूर्वाङ्गीकृतदृष्टिरागं त्यक्तुं न समर्था भवन्तीति निकृष्टतया दृष्टिरागस्येति सुष्ठूक्तम् दृष्टिरागस्तु पापीयानिति ॥१०॥
ननु ते देवा अभिरूपाः, अत एव तेषां मनोज्ञा इति चेत् , तत्सर्वं वीतरागे । अन्येऽप्यसाधारणा बहव उत्तमगुणा इति ततः पराङ्मुखतायां तेषां मौढ्यमेव हेतुरित्याह- प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः ।
इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥११॥ - प्रसन्नमिति- आस्यम्=मुखम् , उपलक्षणत्वात्सर्वाङ्गम् । समम्-निमर्लम् , उपलक्षणत्वात्सर्वाङ्गं सर्वसुलक्षणसत्त्वाद् हृदया
Jain Education International 2010_3or Private & Personal Use Only
www.jainelibrary.org