________________
५४
श्रीवीतरागस्तवे षष्ठः प्रकाशः
मुक्तस्य जगत्कर्तृत्वादिरूपम् , उत्प्रेक्ष्य = अतस्मिंस्तत्त्वं बुद्धम्म परिकल्प्य । आकाशे हि कुसुमस्य बुद्धया परिकल्पनामात्रम् नतु तावता वास्तविकं तद्भवितुमर्हति । तथा नित्यमुक्तस्य जग स्कर्तृत्वादिकं बुद्धया परिकल्पितमेव, नतु तद्वास्तविकमिति सुष्ठूत खपुष्पप्रायमुत्प्रेक्ष्येति । ननु निष्प्रमाणं नोपादेयमिति कथं तदनु सारिणो जना इति चेत्तत्राह-किञ्चित-निःसारतयाऽनिर्देश्यम्, मानम्-प्रमाणम् , क्षित्यादिकं कार्य कर्तृजन्यं कार्यत्वाद्धटादिवदि त्येवं रूपम् । तस्य निःसारत्वं च क्षित्यादेः स्वमते नित्य त्वाबोध्यम् । प्रकल्प्य-उद्भाव्य, सरलजनवञ्चनार्थमिति भावः देहे गेहे वा न सम्मान्ति = स्वं कृतकृत्यं मन्यन्ते इत्यर्थः लोकोक्तिरियं स्वयं स्वश्लाघिनो विषयीकृत्येति बोध्यम् । सदुपदेश कमपि न गणयन्ति, ज्ञानलवदुर्विदग्धत्वादितियावत् ॥९॥
___ ननु दृढतरविरुद्धसन्मानेन तेषां पक्षं निराकृत्यैव ते बोध नीया इति चेत् , तथापि ते रागात्तत्रैव प्रवय॑न्ति, दृष्टि. रागस्याऽशक्योच्छेदत्वादित्याह
कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ १० ॥
कामेति-कामरागस्नेहरागौ-कामात्काममपेक्ष्य राग आस क्तिश्च स्नेहमपेक्ष्य रागश्च, तौ, स्त्रीपुत्रादिविषयासक्ती इत्यर्थ । ईश करनिवारणौ ईषदल्पप्रयासेन सुखेन वा क्रियत इतीपत्करं निवास
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org