SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाब्याख्याविभूषितः कामभोगोपलक्षम् । एवं चोभयं मिलित्वा सकलविषयोपभोगोप-- लक्षणम् । ताभ्यां दुःस्थितैरस्वस्थैः, आत्मारामत्वशून्यैरित्यर्थः । विषयपरवशैरिति यावत् । तैस्तादृशैरपि, अपिना तेषामधमत्वमनाश्रयणीयत्वं च सूच्यते । यद्वाऽपिरत्रैवकारार्थे, दैवतैः = देवैः, कृतार्थाः सिद्धप्रयोजनाः, तादृशैर्दवै ह्यर्थकामयोरेव कथञ्चिल्लाभसम्भवः, न तु मुक्तेः, तेषां स्वयममुक्तत्वात् । अल्पमतितया च परे तावतैव कृतार्थी इति भावः । अत एव, भवादृशान्= वीतरागान् मार्गप्रदर्शकतया मुक्तिप्रदान् , निहनुवते अपलपन्ति, दूषयन्ति वा । परेषामल्पमतितया मुक्ते मूल्यस्यैवाऽज्ञानादर्थकामलाभमात्रेण कृतार्थत्वाद्भवादृशः कुतोऽङ्गीकुर्वन्तु प्रशंसन्तु वेति भावः । अत एव, हा हा ! अत्यन्तं शोचनीयास्ते । निरवधिभवक्लेशवेदनाऽनुषङ्गात् । क्लिश्यमानाश्च दयालुभिरवश्यं शोचनीया इति भावः ॥ ८॥ ननु तर्हि भवद्भिः सुहृदभूत्वा प्रबोधनीयास्ते इति चेन्न । पण्डितंमन्यानां दुर्बोध्यत्वादित्याह खपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । सम्मान्ति गेहे देहे वा न गेहेनर्दिनः परे ॥९॥ स्वपुष्पेति— गेहेनर्दिनः = गेहे एव नर्दन्तीत्येवं शीलाः, नतु बहिः, तादृशप्रतिभाऽभावात्स्वपक्षे दृढतरयुक्त्यभावाच्चेति भावः । परे तीर्थान्तरीयाः, खपुष्पप्रायाम् = आकाशकुसुमसदृशम् , नित्य Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy