________________
५०
श्रीवीतरागस्तवे षष्ठः प्रकाशः
योग्यताऽभावादिति भावः । अत एव, किं ब्रूमः १, किमु. कुर्महे ?, इतोऽन्यन्न किमपि वाच्यं करणीयं चेत्यर्थः । त्वत्प्रप. त्तिस्त्वत्स्तुतिस्त्वदुपासनैव च सर्वस्वम् , नान्यत्किमप्यवशिष्यते तादृशम् , यब्रूमः कुर्महे वेति यावत् । अत्र भक्तिजनितभावा. ऽऽवेशास्त्वामित्यसकृदुक्ति न दोषाय । प्रत्युत भक्त्यतिशयसूच कतया गुण एवेति ध्येयम् ॥५॥
परकीयदोषोद्धोषणपूर्वकं भगवतो जगदुद्धरणसामर्थ्य भङ्गयाऽऽह स्वयं मलीमसाचारैः प्रतारणपरैः परैः । वञ्च्यते जगदप्येतत्कस्य पूत्कुर्महे पुरः १ ॥६॥
स्वयमिति--स्वयम् आत्मना, मलीमसाचारैः मलिनाचारः वद्भिः, तेषामाचारेषु यज्ञादिषु हिंसाधनुषङ्गादिति भावः । “मली मसं तु मलिनं कच्चरं मलदूषितमि" त्यमरः । ननु तेन तेषा मेव हानि नत्वन्यस्येति चेत्तत्राह - प्रतारणपरैः = वञ्चनपरायणैः लोकानामसत्सु प्रवर्तनोद्यतैरिति यावत् । तादृशैः, परैः त्वद्विपक्षै एतद्-दृश्यमानम् , जगदपि = लोकोऽपि, अपिना स्वसमुच्चयः वञ्च्य ते-असत्सु प्रवर्त्यते । न केवलं स्वयमेव पतन्ति, लोक मपि पातयन्तीति तेषामसह्य दौर्जन्यमिति भावः । एवं च तत्-परकीयं तादृशं वञ्चनम् , कस्य, पुरः, पूत्कुर्महे ?=विल पामः, न कोऽपि त्वत्तोऽन्यस्तद्वञ्चनादुद्धन्तु समर्थः, सर्वे ह्यन्वे परवञ्चका एवेति त्वत्पुर एव पूत्कुर्महे-'जगदुद्धरे' ति । भवाने
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org