________________
कीर्तिकलाव्याख्याविभूषितः
४९
एव, योगमुद्रादरिद्राणाम् योगस्य त्वद्योगस्य या मुद्रा पर्यङ्कासनादिरूपा तया कृत्वा दरिद्राणां निःस्वानाम् , योगमुद्रयाऽपि वञ्चितानामिति यावत् । परेषाम् त्वद्विपक्षाणाम् , तत्कथा-तस्य त्वद्योगस्य कथा वाती, एवकारोऽप्यर्थः । काकीदृशी ?, यत्र योगमुद्राया अप्यभावस्तत्र योगवातीया अपि नाऽवसरः, कार्येण लिङ्गेन कारणाऽनुमानात् , योगलिङ्गस्य मुद्राया एव तेषामभावाद्योगाभावनिश्चयात् । एवञ्च न तस्त्वेन साम्यप्रसङ्गगन्धोऽपीति भावः ॥ ४ ॥
यतश्च तथा, अत एवत्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः ? किमु कुर्महे ? ॥५॥ - त्वामिति--त्वाम् भवन्तं वीतरागम् , उक्तहेतोस्त्वादृशस्याऽन्यस्याभावादिति भावः । नाथम् , प्रपद्यामहे-स्वीकुर्मः । त्वं मम नाथ इत्येवं स्वीकुर्म इत्यर्थः । वयमित्यर्थबलाल्लभ्यते । अन्येषामपकृष्टतया स्वयं नाथस्याऽन्वेषणीयतया नाथत्वयोग्यताऽभावादिति भावः । यश्च नाथः स एव स्तुत्य उपास्यश्वेत्याह-त्वां स्तुमः, त्वामुपास्महे । अन्येषामतदहेत्वादिति भावः । प्रपत्त्यादौ स्वेष्टसिद्धिमाह-हि-यतः; त्वत्तः त्वामपेक्ष्य, पर:-अधिकः, उत्कृष्टो वा, त्राता रक्षकः, न, अस्तीति शेषः । यत्र समोऽपि नास्ति, तत्राऽधिकस्य का वार्ता ? । सर्वोत्कृष्ट एव च प्रपत्तियोग्यः, अपकृष्टस्य हि स्वयमसिद्धतया प्रपत्ति
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org