________________
४८
श्रीवीतरागस्तवे षष्ठः प्रकाशः
रागताविलोपापत्तेः । नहि वीतरागाणां विरुद्धमतितासम्भवः, तस्या रागमूलत्वादिति स विपक्ष एव नास्तीति भावः । अथ यदि रागवान् रागद्वेषादिसहितः, तदा, न, विपक्षः, अत्यन्तमपकृष्टत्वेन तस्य विपक्षतया व्यवहाराऽयोग्यत्वात् , समे तथाव्यवहारादिति भावः । तत्र दृष्टान्तमाह - खद्योतः =ज्योतिरिङ्गणः, “ खद्योत ज्योतिरिङ्गणः” (अ. चि. ।४।१२१३) इति । युतिमालिन:भानुमालिनःसूर्यस्य, विपक्षःकिम् ? नैव विपक्ष इत्यर्थः । नहि कोऽपि सचेताः खद्योतं द्युतिमालिनो विपक्षं कथयति, अत्यन्तः मपकृष्टत्वात् । तथा सरागवीतरागयो ने पक्षप्रतिपक्षभाव इति त्वयि प्रतिपक्षमावस्तेषामविवेकविजृम्भित एवेति भावः ॥३॥
___ ननु तेऽपि योगिन इति प्रसिद्धाः, ततश्च साम्यमायातमिति चेन्न, तदाह
स्पृहयन्ति त्वद्योगाय यत्तेऽपि लवसत्तमाः । योगमुद्रादरिद्राणां परेषां तत्कथैव का ? ॥४॥
स्पृहयन्तीति-यदिति निर्देशे, ते प्रसिद्धाः, लवसत्तमाःअनुत्तरविमानवासिनः सप्तलवमानायुरभावेनाऽप्राप्तकेवला देवाः सर्वो स्कृष्टलौकिकस्थितयः, अपिनाऽन्यदेवादीनां तु कथैव केति सूच्यते त्वद्योगाय त्वदाचरितमागीय, स्पृहयन्ति-उत्कटतयाऽभिलषन्ति यथा झटितिमोक्षलाभ: स्यात् । योगप्रभावादेव तेषां तादृशोस्कृष्टावस्थावस्थत्वेऽपि त्वादृशयोगाऽभावादिति भावः । अब
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org