________________
कीर्तिकलाव्याख्याविभूषितः
४७
हेतौ च । यतः कोपादिविप्लुतोऽतः प्रतिपक्षः, प्रतिपक्षस्य कोपो व्यसनमेव, व्यसनस्येव कृत्रिमत्वाद् दुस्त्यजत्वान्निष्फलत्वादनापादकत्वाच्च । अत एव तस्य कोपस्त्वयि, अन्यथा तुं तव वीतरागतया सर्वज्ञतया विश्वस्मिन्निष्कारणं वत्सलतया च त्वयि तस्य कोपकारणमत्यन्तमसम्भवीति हृदयम् । विवेकिनः-सदसज्ज्ञानवन्तः, अनया सद्य:प्रतिपादितया, किंवदन्त्या-जनश्रुत्या, अपिना साक्षातथाऽनुभवे तु कथैव केति सूच्यते । " किंवदन्ती जनश्रुति " रित्यमरः । किंजीवन्ति-कष्टेन जीवन्ति, दुःखीभवन्तीति यावत् । एषा वार्ताऽपि तेषामसह्या, द्वेषस्य तु कथैव का ? । एवञ्च त्वद्वेषिणोऽविवेकिन एव । त्वद्वेषादविवेकितैव व्यज्यते इति त्वद्वेषाद्विरमणमेव वरमिति भावः ॥ २ ॥
वस्तुतस्तु कोपादिविप्लुतो भगवतो विपक्षतया व्यवहारयोग्य एव नास्ति, समे एव विरुद्धप्रवृत्तिके विपक्षव्यवहारात् । यद्वा भगवतो विपक्षत्वेन प्रसिद्धो बौद्धादिरविवेकीति गेहेनर्दितामात्रमिति चेत्तत्राह. विपक्षस्ते विरक्तश्चेत् स त्वमेवाऽथ रागवान् । ' न विपक्षो विपक्षः किम् खद्योतो द्युतिमालिनः ? ॥३॥ - विपक्ष इति-ते, विपक्षः, विरक्तः वीतरागः, चेद् = यदि, अस्तीति शेषः । तर्हि, सः विपक्षतया निर्दिष्टो बौद्धादिः, त्वमेव = त्वदभिन्न एव, वीतरागत्वेन रूपेण कथञ्चिदभेदात् । तथा सति हि तस्य त्वविरुद्धपक्षाऽसम्भवात् । अन्यथा वीत
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org