________________
श्रीवीतरागस्तवे षष्ठः प्रकाशः
दुर्गतिनिमित्तत्वादिति हृदयम् । अपिना सूचितमर्थमाह - द्वेष. विप्लवा-द्वेषेण विप्लवो विद्रोहरूपो डमरः, असदारोपो वेत्यर्थः । अनुचिताचरणमिति यावत् । किं पुनः ?-दौस्थ्याय भवतीति कि वक्तव्यम् ? । प्रत्युत माध्यस्थ्याऽपेक्षया द्वेषविप्लवस्य महापराधतय सोऽतिदौःस्थ्यायाऽवश्यमेव स्यादितिभावः । दुःस्था एव भगवद्वेषिणः, भगवद्वेषाच्च ते तादृश एव च सदा भवेयुरिति न भगवति मध्यस्थेन द्वेषिणा वा भाव्यमिति सुहृद्भक्त्वा सूचयतीति ध्येयम् ॥१॥
___ ननु विवेकपूर्वको द्वेषो न दौःस्थ्यायेति चेन्न । विवेकिने भगवति द्वेषवार्ताऽप्यसह्या, दूरे द्वेषविधिरित्याह
तवाऽपि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्याऽपि किं जीवन्ति विवेकिनः ॥२॥
तवेति-तव = तादृशातिशयादिविशिष्टस्य निष्कारणं सर्व जगद्धितकृतः, अपिना तादृशगुणसत्वे प्रतिपक्षस्य नितरामसम्भवा सूच्यते, नहि कोऽपि स्वहितकृतं द्वेष्टीति । प्रतिपक्षः-प्रतिकूल पक्षोऽभ्युपगमो यस्य स तादृशः, द्वेषीति यावत् । अस्ति, एतावन्मानं तु सह्यम् , भिन्नरुचि हि लोकः । किन्तु, सः तव प्रतिपक्षः, कोपादिविप्लुतः = कोपादीनां विप्लुतो व्यसनी त्वयि सदा कुपित इति यावत् । “पञ्चभद्रस्तु विप्लुतः । व्यसनी” (अ. चि. ।३।४३४) इति । अपिः प्रतिपक्षसमुच्चये
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org