________________
कीर्तिकलाव्याख्याविभूषितः
षष्ठः प्रकाशः
तदेवमुक्ताऽसाधारणाऽतिशयादिसमन्वितेऽपि भगवति वीतरागे ये द्वेषादि समाश्रयन्ति, तान्निरस्यन्नाहलावण्यपुण्यवपुषि त्वयि नेत्राऽमृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनढेषविप्लवः १ ॥ १ ॥
लावण्येति-भगवन् वीतरागेत्यर्थबलात्प्रकरणबलाद्वाऽनुसन्धेयम् । त्वयि, लावण्यपुण्यवपुषि-लावण्येन मुक्ताफलतरलकान्त्या, पुण्यं पवित्रितम् , विराजितमित्यर्थः । तादृशं वपुः शरीरं यस्य तादृशे सति । “ मुक्ताफलस्य च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति · यदङ्गेषु तल्लावण्यमिहोच्यते” इति लावण्यलक्षणम् । अत एव, नेत्रामृताञ्जने नेत्रस्याऽमृताञ्जनममृतघटिताञ्जनमिव, तस्मिन् । यथाऽमृताञ्जनं नेत्रसुखकारि प्रसादकं च नेत्रस्य, तथा भगवद्वपुरप्यासेचनकं दर्शनेन कृत्वा सम्यग्दृष्टिसमुत्कर्षकतया नेत्रप्रसादकं चेति भावः । तादृशे त्वयि विषये, माध्यस्थ्यम् औदासीन्यमुपेक्षितता वा, दौःस्थ्याय = दुर्गतये, “ दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीटकौ " (अ. चि. ३। ३५८।) इति । मध्यस्थो हि न भगवति रागवान् , अत एव न दर्शनोत्सुक इति तस्य न केवलं नेत्रसुखसम्यग्दृष्टिलाभहानिः, अपि तु सद्यो दुर्गतिरपि जायते । तादृशे हि माध्यस्थ्येऽविनयाऽनुषङ्गादनोपचारस्य च
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org