________________
श्रीवीतरगस्तवे पञ्चमः प्रकाशः
शंसतीत्यवं शीला । कथमन्यथा छत्रत्रयी क्रमश उपर्युपरि व्यवस्थिता, अन्यत्र स्वामिन्येकस्यैव छत्रस्य भावादिति भावः । प्रभोरुपरि छत्रत्रयी त्रिभुवनस्वामित्वाऽविनाभाविनीति गूढाकूतम् ॥८॥
प्रातिहार्यश्रियोऽसाधारण्यं ध्वनयन्नुपसंहरति--- एतां चमत्कारी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा नाथ ! मिथ्यादृशोऽपि ही! ॥९॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते वीतरागस्तवे पञ्चमः प्रकाशः ॥५॥
. एतामिति–नाथ !, एताम् वर्णितप्रकाराम् , चमत्कार करीम्-अलौकिकत्वादसाधारणत्वाच्च सहर्षविस्मयकारिणीम् , तव, प्रातिहार्यश्रियम् = चैत्यपादपादिलक्षणप्रातिहा ख्यातिशयविशेषसम्पदम् , दृष्ट्वा, ही आश्चर्यमेतद् , यत् , मिथ्यादृशः त्वदुक्तयार्थदृष्टिदरिद्रास्तीर्थान्तरीया अयथार्थदृशः, अपिना सम्यग्दृशः समुच्चयः । के न चित्रीयन्ते ? = अपि तु मिथ्यादृशोऽपि सर्व एवाश्चर्यमनुभवन्तीत्यर्थः । त्वय्यवज्ञाशीला अपि त्वदतिशयं दृष्ट्वा चित्रीयन्त इति त्वत्प्रभाव आश्चर्यम् , चमत्कारकर्याश्चमत्कारजनन न मुखप्रेक्षिततयेति भावः ॥९॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्ति कलाख्यायां व्याख्यायां पञ्चमः प्रकाशः ॥५॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org