________________
कीर्तिकलाव्याख्याविभूषितः
पुरः अग्रे, समवसरणे विहारे चेत्यर्थबलाल्लभ्यते । दुन्दुभिः= भेयारख्यो देववाद्यविशेषः । “ भेरी स्त्री दुन्दुभिः पुमानि" त्यमरः । व्योम्नि-आकाशे, प्रतिध्वनन् अनाहत एव ध्वनितः प्रतिध्वनिमुत्पादयन् , शब्दं कुर्वन् वा, त्वत्प्रभावातिशयादिति भावः । जगति लोके, आप्तेषु = आप्तत्वेन स्वीकृतेषु, प्राज्यम् = भूरि, विशालम्,सार्वभौममिति यावत् । साम्राज्यम-चक्रवर्तित्वम् , शंसतिकथयतीव, जगति त्वमेवाऽऽतेषु सर्वमुख्यत्वाच्चक्रवर्तीति दुन्दुभिलों के प्रतिध्वनिमुत्पादयन् सूचयति । लोकेऽपि हि चक्रवर्तित्वं पटहादिध्वनिना सूच्यत इति भावः ॥७॥
प्रभोश्छत्रत्रयं वर्णयति-- तवोर्ध्वमूर्ध्व पुण्यर्द्धिक्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी ॥८॥
तवेति --तव, ऊर्ध्वमूर्ध्वम् उपर्युपरि, स्थितेति शेषः । शिरसीत्याल्लभ्यते । अत एव, पुण्यर्द्धिक्रमसब्रह्मचारिणी = पुण्यमेव पुण्यस्य वर्द्धिः सम्पत् सम्यक्त्वदेशविरतिसर्वविरतिरूपा दर्शनज्ञानचारित्ररूपा वा, तस्या यः क्रम आनुपूर्वी, तस्य सब्रह्मचारिणी सदृशी, पुण्याविव क्रमस्य निर्मलतायाश्चाऽत्राऽपि सत्त्वादिति भावः । छत्रत्रयी-छत्राणां त्रयी त्रिभुवनप्रभुत्वप्रौढिशंसिनी-त्रिभुवनस्य यत्प्रभुत्वं स्वामित्वम् , तस्य या प्रौढिदोयमुत्कर्षश्च, तादृशस्वामित्वस्याऽन्यत्राऽभावादिति भावः । तां
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org