________________
४२
श्रीवीतरागस्तवे पञ्चमः प्रकाशः
न्द्रासनसूचितं मृगेन्द्रस्वामिनं स्वस्वामिस्वामिनं जगत्स्वामिनं त्वां सेवितुं च समायान्तीतिध्वनिव्यङ्ग्यो महांस्तवाऽतिशय इति ध्वनिः ॥५॥
भामण्डलस्याऽपि जनमनोज्ञत्वमाहभासां चयैः परिवृतो ज्योत्स्नाभिरिव चन्द्रमाः । चकोराणामिव दृशां ददासि परमां मुदम् ॥६॥
भासामिति-वीतराग ! त्वमित्यर्थात्प्रकरणाद्वाऽनुसन्धेयम् । भासाम् युतीनाम् , “ भाश्छवियुतिदीप्तय " इत्यमरः । चयैः= पुजैः, ज्योत्स्नाभिः चन्द्रिकाभिः, चन्द्रमा इच, परिवृतः= समन्वितः, शरीरद्युतिद्योतितो भामण्डलशोभितश्चेति यावत् । दृशाम् = लोकनेत्राणाम् , चकोराणाम् स्वनामख्यातपक्षिणामिव परमाम् अत्युत्कृष्टाम् , मुदम् आह्लादम् , ददासि, । यथा ज्यो स्नाभिश्चकोरा मोदन्ते, तथा तव भामण्डलेन शरीरद्युतिमि वो लोकलोचनानीत्यर्थः । एतेन भगवतश्चन्द्रवदाह्लादकत्वं ध्वन्यते आसेचनककान्तिभंगवानिति भावः ॥६॥
दुन्दुभिध्वानं वर्णयन्नाहदुन्दुभिर्विश्वविश्वेश ! पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं साम्राज्यमिव शंसति ॥ ७ ॥
दुन्दुभिरिति-विश्वविश्वेश ! विश्वेषां सर्वेषां विश्वानां जग. तामीश !, अहिंसाद्युपदेशादिना सर्वजगत्पालनादिति भावः । ते.
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org