________________
(3)*
कीर्तिकलाव्याख्याविभूषितः
-
-
स्याऽब्जपरिचरणमुचितमेवेति भावः । चकास्ति-शोभते ॥४॥
देशनां श्रोतुं मृगागमनं भङ्गया वर्णयतिमृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति मृगेन्द्रमिव सेवितुम् ॥५॥
मृग इति-त्वयि, मृगेन्द्रासनम्-सिंहासनम्, आरूढे= अधिष्ठिते, तथा, देशनाम्-प्रवचनम्, तन्वति–कुर्वाणे सति, श्रोतुम्-देशनामाकर्णयितुम् , मृगाः-हरिणाः, मृगेन्द्रम्-सिंहम् , " सिंहो मृगेन्द्रः पञ्चास्य " इत्यमरः । सेवितुम्-उपासितुमिय समायान्ति । यो हि यस्येन्द्रः स तेन सेव्यते इति प्रसिद्धः । एवं च मृगाः यथा स्वस्वामित्वनिर्वाहाय मृगेन्द्र सेवितुं समायान्ति, तथा रागादिनाऽऽकृष्टाः पुण्यसम्भारलब्धपटुत्वसम्यक्त्वादिजनितभक्त्या च तव देशनां श्रोतुमिति समागमक्रियासाम्यादुपमा । सा च मृगाणां मृगेन्द्रसेवनस्याऽप्रसिद्धत्वान्मृगेन्द्रभयात्पलायनस्यैव प्रसिद्धत्वाच्चाऽभूता, “ यथा मेरुशिरेः शृङ्गं तोयवर्षेण तोयद " इत्यादिवदिति बोध्यम् । श्रोतुं यत्समायान्ति, तन्मृगेन्द्रासनस्थं मृगेन्द्रं स्वस्वामिनं सेवितुमिवेत्युत्प्रेक्षा वा । परमत्र पक्षे श्रोतुमागमनस्याऽपकर्षापत्तिः, अपकृष्टं हि कर्मोत्कर्षलाभायोत्कृष्टेनोत्प्रेक्ष्यते । न तत्कृष्टमपकृष्टेन, अनिष्टार्थप्रतीत्यापत्तेः । अत्र च श्रवणार्थमागमनमेवोत्कृष्टमिति समालोचनीयं सहृदयैः । तिर्यचोऽपि त्वयि भक्तिमन्त इति न केवलं सिंहमेव, किन्तु मृगे
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org