SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः अगदुद्धारसमर्थः, अन्ये च सर्वे वञ्चका एवेति सारार्थः ॥६॥ ननु परैरपि स्वस्वदेवा ऐश्वर्यवन्तो मुक्ताश्च प्रतिपाद्यन्ते इति तिषां पुरः किं न पूत्करणीयमिति चेन्न । तेषां वस्तुतोऽसत्त्वाद्विवेकिभिरनाश्रयणीयत्वादित्याह नित्यमुक्तान् जगज्जन्मस्थेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ? ॥७॥ नित्येति-का-किम्प्रकारः, चेतनः चेतयते सञ्जानातीत्येवंशीलः, स तादृशः, सदसद्विवेकवानित्यर्थः । तादृशविवेकाऽभावे तु चेतनासत्त्वेऽपि न जडादतिरिच्यते विशेषेणेति भावः । नित्यमुक्तान् = नित्यं सर्वदैव मुक्ताः कर्मसम्बन्धरहितत्वान्मुक्ता इव । " नित्यं विज्ञानमानन्दं ब्रह्मे " ति तेरिति भावः । नतु क्षीणकर्माण इत्यर्थः । तथा सति नित्यमुक्तत्वहान्यापत्तेः, कर्म-- क्षयात्पूर्व मुक्तत्वाऽभावाऽनुषङ्गादिति ध्येयम् । नित्यमुक्ता इत्येवं प्रतिपाद्यमानानिति यावत् । ननु मुक्ताश्चेन्निर्गुणा इति तदाश्रयणे तत्पुरः पूत्करणे वा न कोऽपि लाभ इत्याशङ्कयाह-जगजन्मस्थेमभयकतोद्यमान जगतो जन्मनि सर्गे स्थेमनि स्थितौ क्षये प्रलये च कृतोद्यमान् सन्यापारान् । जगतः सृष्टिस्थितिप्रलयकरत्वेन वर्णितत्वात् , तथा च श्रुति :- " विश्वस्य कर्ता भुवनस्य गोप्ते' ति । ऐश्वर्यबलादिति भावः । एवञ्च पूत्कारादिना दयावशाजगदुद्धाराय ते यतेरन्निति सम्भाव्यते इति हृदयम् । उक्तोभय Jain Education International 2010_3or Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy