________________
कीर्तिकलाव्याख्याविभूषितः
त्वविनयाऽनुषङ्गादकृतार्थता, तदेवाह-पुनः किन्तु, मिथ्यादृशाम्= सम्यग्ज्ञानशून्यानां त्वदाज्ञाविराधकानां त्वयि विनयमभजमानानाम् , व्यर्थम् सर्वनमस्यत्वदनमनाद्धेतोः पूज्यपूजाव्यतिक्रमाऽनुषङ्गासदपि न कृतार्थमिति व्यर्थमेवेत्यर्थः । शिर इत्यनुषज्यते । एतेन मिथ्यादृशस्तवाद्यपेक्षयाऽप्यधिकजडत्वं ध्वनितम् ॥१३॥
भगवतो जघन्यतः कोटिसुरा-सुरसेव्यत्वमाहजघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः । भाग्यसम्भारलभ्येऽर्थे न मन्दा अप्युदासते ॥१४॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्रार्यविरचिते श्रीवीतरागस्तवे चतुर्थः प्रकाशः ॥४॥ ____जघन्यत इति-त्वाम् भवन्तं वीतरागम् , जघन्यतः अल्पाल्पतः, कोटिसङ्ख्या:-कोटिसङ्ख्यामिताः, उत्कर्षतस्तु कोटिकोटिसङ्ख्यामिता इति भावः । सुरासुराः, सेवन्ते-उपासते । तादृशगुणानामन्यत्राऽलाभात्त्वामेव सेवन्ते इति भावः । ननु गुणवान् दुर्लभोऽपि सर्वैः सेव्य एवेति न नियम इति मनसिकृत्य समर्थयन्नाह-भाग्यसम्भारलभ्ये भाग्यस्य शुभादृष्टस्य सम्भारेण प्राचुर्येण लभ्ये प्राप्ये, अर्थ-विषये, मन्दाः अल्पमतयः, अपिना विपुलमतीनां तु कथैव केति सूच्यते । न, उदासते-उपेक्षामाश्रयन्ति । त्वत्सेवनं भाग्यसम्भारेण लभ्यमिति तल्लाभे कः सचेता उदासताम् ?, पुनर्लाभस्य सन्दिग्धत्वादित्युचितं देवानां त्वत्सेवनमिति
Jain Education International 2010_030r Private & Personal Use Only
www.jainelibrary.org