________________
श्रीवीतरागस्तवे चतुर्थः प्रकाशः
एव सदा वहति, देवनियोगादित्येवमुक्तिः । एवं लब्धावसरः सर्वानुकूल्यमाह-भवदन्तिके भवत्समीपे, पञ्चेन्द्रियाणाम् नरादीनाम् , सम्प्रधारणसंज्ञावतामिति यावत् । दोःशील्यम्-दुराचरणम् , प्रतिकूलाचरणमित्यर्थः । क्व-किं निमित्तम् , भवेत् ? । न भवेदेवेत्यर्थः । एकेन्द्रियस्याऽधमजीवस्य यत्र न प्रातिकूल्याऽवसरः, तत्रोत्तमस्य. विवेकवतः प्रतिकूलाचरणे निमित्तमतिदुर्लभम् । भगवतः प्रभावादतदहीं अपि विवेकिनो जायन्ते, तर्हि विवेकिनः किमु वक्तव्यमिति भावः । सर्वे एव जीवा भगवत्यनुकूलतयैव वर्तन्त इति हृदयम् ॥१२॥
विहारे भगवतस्तस्कृतप्रणाममाहमनों नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थं शिरस्तेषां व्यर्थ मिथ्यादृशां पुनः ॥१३॥
मूर्नेति-तरवः वृक्षाः, त्वन्माहात्म्यचमत्कृताः तव माहात्म्येनोक्तप्रकारेण वक्ष्यमाणप्रकारेण च, चमत्कृताः पटूकृताः, सचेतना विवेकवन्त इव कृता इत्यर्थः । अत एव, मूर्ना शिरसा, शिखरेणेत्यर्थः । नमन्ति-नम्रीभवन्ति, प्रणमन्तीति यावत् । त्वामित्यर्थबलाल्लभ्यते । देवैर्भगवदुपचारार्थ तेषां शिखरनमनात् , स्वयमेव वा तेषां फलपुष्पादिभाराऽवनततयैवमुक्तिः । तत्-यस्मात्त्वत्प्रणामाद् हेतोः, तेषाम्=तरूणाम् , शिरः-शिखरम् , कृतार्थम् कृतकृत्यम् , शिरसो हि पूज्यनमनेनैवं कृतार्थता, अन्यथा
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org