________________
कीर्तिकलाव्याख्याविभूषितः
जगदिति-जगत्प्रतीक्ष्य! जगद्भिः सर्वप्राणिभिः प्रतीक्ष्य ! पूज्य !, अत एव, पक्षिणः, अपिना नरादीनां तु विवेकवतः कथैव केति सूच्यते । त्वाम् , प्रदक्षिणम् दक्षिणेन कृत्वा यथा स्यात्तथा, यान्ति, यद्वा प्रदक्षिणं कुर्वन्तीत्यर्थः । शुभाशंसयेति भावः । देवप्रेरिता इति ध्येयम् । एवं सति, त्वयि, ये= यत्प्रकारा जनाः, वामवृत्तयः प्रतिकूलाचरणाः, आज्ञाविराधनादिनेति भावः, तेषाम् , महताम् अहंमहानित्येवं मन्यमानानाम् , का गतिः कीदृशी गतिरिति न जानामि, निकृष्टा गतिस्तेषां भवित्रीति यावत् । लोकबाह्यो हि दुर्गतिमेवाऽऽप्नोतीति भावः ॥ ११ ॥
विहारे भगवतः समीराऽऽनुकूल्यमाहपञ्चेन्द्रियाणां दौःशील्यं क्व भवेद् भवदन्तिके १ । एकेन्द्रियोऽपि यन्मुञ्चत्यनिलः प्रतिकूलताम् ॥१२॥
पञ्च इति-यद्यस्माद् हेतोः, एकेन्द्रियः स्पर्शनमात्रेन्द्रियः, अपिनाऽसंशिजीवेषु तस्य सर्वजघन्यता हेयोपादेयविवेकशून्यता च सूच्यते । अनिल: वायुः, प्रतिकूलताम्-सम्मुखदिशमपेक्ष्य वहनरूपं प्रतिकूलाचरणम् , मुञ्चति-त्यजति, पृष्ठत एव वहतीत्यर्थः । सम्मुखदिश आगच्छन् वायुर्हि विहारे प्रतिकूलः, मुखादिषु रजःकणादयुड्डायनादिभि वेगादिभि गत्यवरोधादिना च क्लेशजनकत्वात् । पृष्ठतस्तु सोऽनुकूलः, श्रमहरत्वाद्गतिसहायाद्रजःकणादयुपद्रवाद्यकरणाच्च । भगवतो विहारे च वायुः पृष्ठत
Jain Education International 2010_030r Private & Personal Use Only
____www.jainelibrary.org