________________
२८
श्रीवीतरागस्तवे चतुर्थः प्रकाशः
-
पौराणिकी प्रसिद्धिः, तथा तव धर्मचक्रमपि दर्शनमात्रेण मिथ्या दृशामसत्त्वं सम्पादयति, धर्मचक्रदर्शनेन तेषां सम्यक्त्वप्ररोहेण कृत्वा मिथ्यादृष्टिविलोपात् । मिथ्यात्वोपम च कुतो मिथ्यादृशो भवन्त्विति भावः । मिथ्याशस्तव धर्मचक्ररूपमतिशयं साक्षाद दृष्ट्वा स्वस्य तदभावात्स्वसिद्धान्ते जाताऽप्रामाण्यमतयस्त्वत्सिद्धान्ते चो दभूतरुचयो मिथ्यात्वं त्यजन्तीति गुणाऽभावे गुणिनोऽप्यसत्त्वम् , तत्तादाम्यादिति सुष्ठूच्यते मिथ्यादृशां युगान्तार्क इति । चक्र स्य सम्यक्त्वपोषणमप्याह-सुदृशाम्-सु समीचीना दृग् येषां तेषाम् सम्यक्त्ववतामित्यर्थः । जिनोक्ततत्त्वश्रद्धानशीलानामिति यावत् । कृते इति शेषः । अमृताञ्जनम् = अमृतघटिताञ्जनतुल्यम् । अञ्जनं हि दृशो विशदीकरोति, तथा धर्मचक्रमपि रुचेरुत्कर्षकम् । सम्यक्त्ववतां हि धर्मचक्रं दृष्ट्वा सविशेषं प्रत्ययितानां तद् रुचिमतिविशदीकरोतीति भावः । कार्यमभिधाय स्वरूपमाह-तीर्थकुल्लक्षम्याः तीर्थकृतो या लक्ष्मीरतिशयादिसमृद्धिः, सैव स्त्रीत्वविशिष्टतया लक्ष्मीदेवी, तस्याः, तिलकम्=भालाऽनुलेपनम् , विशेषकमित्यर्थः, तदिव, वृत्तत्वादग्रभागस्थत्वात्प्रधानत्वाच्चेति भावः । एधते-विजयते, सर्वोत्कर्षेण वर्तत इत्यर्थः । योयुत्कृष्टो भवति स पुरो भवतीत्युचितमेवेति भावः । समवसरणे विहारे च तीर्थकृतो धर्मचक्रवर्तित्वसूचकं देवै विहितं धर्मचक्रं पुरःस्थं भवतीत्येवमुक्तिः ॥१॥ ... महेन्द्रध्वजं वर्णयन्नाह -
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org