________________
कीर्तिकलाव्याख्याविभूषितः
एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ||२||
२९
एक इति — जगति, अयम् = वीतराग एव, एवकारेणाऽन्ययोगव्यवच्छेदो द्योत्यते । एकः = असाधारणः, सर्वमुख्यो वा, स्वामी = उपदेशादिना सर्वजगत्पालकत्वादीशः, सेव्यो वा, इति = एवंप्रकारमर्थम्, आख्यातुम् - प्रतिपादयितुम्, जम्भविद्विषा = इन्द्रेण, जम्भनामा कश्चिदसुरस्तेन हत इति तन्मूला तदाख्या तस्येति भावः । उञ्च्चैरिन्द्रध्वजव्याजात् = उच्चैः सहस्रयोजनमुत्तुङ्गो य इन्द्रध्वजाख्यो ध्वजः, स एव व्याजो मिषम्, तदाश्रित्येत्यर्थः । तर्जनी = प्रथमाङ्गुलिः, उच्छ्रिता = उन्मुखीकृता, अस्तीति शेषः । नायमिन्द्रध्वजः, किन्त्विन्द्राङ्गुल्येवोन्मुखी ध्वजशब्देनोच्यते इत्याकूतम् । तर्जन्युन्नयनेन किमपि विशिष्टं लोके निदर्श्यते इत्येव - मुक्ति: । यो हि जगत्स्वामी, तस्यैव तादृशोऽतिशय इति भावः । अपहूनुत्यलङ्कारः । तीर्थकृतो विहारादौ देवैः सञ्चार्यमाण इन्द्रध्वजोऽतिशय उक्तप्रकारेण वर्णितः ॥२॥
देवकृतस्वर्णकमलेषु चरणन्यासाऽतिशयमाह—
यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥ यत्रेति -- तव, पादौ यत्र - यस्मिन् प्रदेशे, पदम् = स्थानम्,
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org