________________
कीर्तिकलाच्याख्याविभूषितः
उपेक्षा निन्दकप्रशंसकेषु समबुद्धिता, सा च, ताभ्यां हेतुभ्यां प्रतीक्ष्याय पूज्याय, " अय॑स्तु प्रतीक्ष्यः " (अभि. चि. ॥३॥ ४४३ । ) एवं पर्यायनयेन स्तुत्वा द्रव्यनयेन स्तुवन्नाह-योगात्मने-उक्तमैत्र्यादियोगस्वरूपाय, तुभ्यम्=भगवते वीतरागाय, नमः= नमस्कारोऽस्त्विति शेषः । एतादृशायैव नमस्कारो योग्य इतिभावः ॥१५
इति श्री वीतरागस्तवे श्रीकीर्तिचन्द्रविजयगणिविरचितायां कीर्तिकलाख्यायां व्याख्यायां तृतीयः प्रकाशः ॥३॥
चतुर्थः प्रकाशः अथ सुरकृताऽतिशयान् वर्णयन्नादौ धर्मचक्रं वर्णयतिमिथ्यादृशां युगान्तार्कः सुदृशाममृताञ्जनम् । तिलकं तीर्थकुल्लक्ष्म्याः पुरश्चक्रं तवैधते ॥१॥
मिथ्येति—हे वीतरागेति प्रकरणाल्लभ्यते । तव, पुरः= अग्रभागे, समवरणे विहारे च पुरोऽवस्थितमित्यर्थः । चक्रम्= धर्मचक्रम् । देवैर्विहितमित्यनुसन्धेयम् । मिथ्यादृशाम् = मिथ्या वस्तुयाथात्म्यानवसायित्वाद्विपरीता दृग् दृष्टि दर्शनं सिद्धान्तो वा येषां तेषाम् यथावद्वस्तुपरिच्छेददरिद्राणामित्यर्थः । कृते इति शेषः । युगान्तार्क: युगान्तः प्रलयकालः, तस्य योऽर्कः सूर्यः, स इव, तद्रूपं वा । यथा हि प्रलयकालिकः सूर्योऽतिप्रखरकरतया दर्शनमात्रेण जीवदृष्टे जीवानां चाऽसत्त्वसम्पादक इति
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org