________________
श्रीवीतरागस्तवे तृतीयः प्रकाशः
तथेति-त्वम् , उपेयस्य प्राप्यस्य मोक्षस्य, उत्तमानां स एवोपेय इति भावः । उपाये हेतुभूताऽनुष्ठाने, क्रियासमभिहारतः पौनःपुन्येन, नहि सकृत्तथोपायप्रवृत्त्या तत्प्राप्तिरिति भावः । तथा = तेन प्रकारेण, इतरविलक्षणेन प्रकारेणेत्यर्थः । प्रवृत्तः-कृतोद्यमः, यथा-येन प्रकारेण, अनिच्छन्-अनभिलष्यन्नपि, पराम्-उत्कृष्टाम् , श्रियम् अतिशयादिरूपां लक्ष्मीम् , अशिश्रियः-प्राप्तवान् । प्रवृत्तिमुक्तीच्छयैव, अतिशयस्तु तादृशविलक्षणोपायस्वाभाव्यादनिच्छायामप्यनुषङ्गत आविर्भवत्येव । स्वभावस्य स्वतन्त्रप्रवृत्तिकत्वादिति भावः ॥१४॥
तमुपायमेव स्तुतिव्याजेनाहमैत्रीपवित्रपात्राय मुदितामोदशालिने । कृपोपेक्षाप्रतीक्ष्याय तुभ्यं योगात्मने नमः ॥१५॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते श्रीवीतरागस्तवे तृतीयःप्रकाशः ॥३॥
मैत्रीति---मैत्रीपवित्रपात्राय-मैत्री सर्वहितबुद्धिः, तस्याः, पवित्राय दोषलेशस्याऽप्यभाद्विशुद्धाय पात्रायाऽऽश्रयाय, सर्वहितमतिमते इत्यर्थः । मुदितामोदशालिने–मुदिता गुणपक्षपातिता, तया कृत्वा यः आमोदः प्रमोद आनन्दात्मता, तेन शालिने शोभमानाय, कृपोपेक्षाप्रतीक्ष्याय=कृपाऽऽतभीतत्राणेच्छा, सा च
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org